________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ सर्गः]
धर्मशर्माभ्युदयम् । उत्फुल्ललोचनरुचां निचयैर्विचित्रैः
संचित्रयन्निव दिवस्पतिरारुरोह ॥ ३४ ॥ ऐरावणश्चटुलकर्णझलंझलाभि
रुडीनगण्डमधुपावलिराबभासे । यात्रोद्यतः पथि जिनस्य पदे पदेऽसौ
निर्मुच्यमान इव पापलवैस्त्रुटद्भिः ॥ ३५ ॥ गच्छन्ननल्पतरकल्पतरुप्रसून___ पात्रीपवित्रकरकिंकरचक्रवालैः । सोढुं तदीयविरहार्तिमशक्नुवद्भिः ____ क्रीडावनैरिव रराज स पृष्ठलग्नैः ॥ ३६ ॥
अन्योन्यघटनरणन्मणिभूषणाया ___ वाचालितोच्चकुचकुम्भमराः सुराणाम् । उल्लासिलास्यरसपेशलकांस्यताल
लीलाश्रिता इव रसाललनाः प्रचेलुः ॥ ३७ ॥ गायन्नटन्नमदनुव्रजदप्यमन्दं
वृन्दं तदा दिविषदां मिलदासमन्तात् । देवः पृथक्प्टथगुपात्तविशेषभावै
स्तुल्यं सहस्त्रनयनो नयनैर्ददर्श ॥ ३८ ॥ उद्दामरागरससागरमनहूहू
हाहादिकिंनरतरङ्गितगीतसक्तः । संत्रासहेतुषु नदत्स्वपि तूर्यलक्षे
प्वन्तन शीतकिरणं हरिणो बबाधे ॥ ३९ ॥ क्रूरः कृतान्तमहिषस्तरणेस्तुरंगा
द्योतिः कुरङ्गरिपवः (१) पवनस्य चैणः । १. गजकर्णगतिझलंझलेत्युच्यते' इति कामन्दकीयनीतिसारटीका (१।४५).
For Private and Personal Use Only