________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
काव्यमाला |
रङ्गावलीध्वजपटोच्छ्रयतोरणादिव्यग्रे निधीश्वरपरिग्रहचक्रवाले । उद्वेलनोलसित रत्नरुचा हसद्भि
निर्यामिकैरिव चिराञ्चलितं निधानैः ॥ २८ ॥ जाते जगत्रयगुरौ गरिमाम्बुराशिनीरान्तरान्तरितविश्वमहिनि तत्र । कोऽन्यस्य राज्यमहिमेति किल प्रभावशक्त्या हतं हरिहयासनमाप कम्पम् ॥ २९ ॥ तत्कम्पकारणमवेक्षितुमक्षमाणि
ज्ञात्वा शतान्यपि दशोज्ज्वललोचनानाम् | अत्यन्तविस्मयरसोत्सुकचित्तवृत्ति
१. लडहः सुन्दरः,
-
Acharya Shri Kailassagarsuri Gyanmandir
रिन्द्रोऽवधिं समुदमीलयदेकनेत्राम् ॥ ३० ॥ तेनाकलय्य जिनजन्म जवेन पीठा
दुत्थाय तद्दिशि पदान्यपि सप्त गत्वा । देवो दिवस्तमभिवन्द्य मुद्राभिषेक्तं
प्रस्थानदुन्दुभिमदापयत क्षणेन ॥ ३१ ॥ उन्निद्रयन्निव चिराय शयालुधर्म
तस्य ध्वनिर्भरितभूरिविमानरन्ध्रः । हर्म्याणि मेदुरतरोऽपि सुरासुराणां द्राक्पारितोषकमिवार्थयितुं जगाम ॥ ३२ ॥
ते षोडशाभरणभूषितदिव्यदेहाः स्वस्वोरुवाहनजुषः सपरिग्रहाच | छन जैनगुणसंततिकृष्यमाणा
लुर्बलादिव दशापि दिशामधीशाः ॥ ३३ ॥ स्वर्दन्तिनं तदनु दन्तसरः सरोजराजीनटल्डहनाकवधूनिकायम् ।
For Private and Personal Use Only