________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ सर्गः]
धर्मशर्माभ्युदयम् । नोर्वीशमौलिमणिमालिकयाज्ञयैव
लक्ष्म्या पुनर्नियतमात्मसमीचकार ॥ २१ ॥ ते गन्धवारिविरजीकृतराजवर्त्म- न्यभ्राददभ्रघृणयो मणयो निपेतुः । यैस्तत्क्षणोप्तसुकृतद्रुमबीजपुञ्ज
निर्यत्प्ररोहनिकराठतिरन्वकारि ॥ २२ ॥ उत्क्षिप्तकेतुपटपल्लवितान्तरिक्षे
चिक्षेप तीक्ष्णरुचिरत्र पुरे न पादान् । मन्ये पतत्रिदशपुष्परसप्रवाह
संदोहपिच्छिलपथच्छलपातभीतः ॥ २३ ।। संवाहयन्निव मनाविचरबन्धमुक्ता
स्त्वङ्गद्विसंस्थुलपदाः प्रतिपक्षवन्दीः । मन्दारदाममधुसीकरभारवाही
मन्दोऽतिमन्दगतिरत्र बभूव वायुः ॥ २४ ॥ तौर्यों ध्वनिः प्रतिगृहं लयशालि नृत्तं ___ गीतं च चारुमधुरा नवतोरणश्रीः । इत्याद्यनेकपरमोत्सवकेलिपात्रं ___ द्रागेकगोत्रमिव भूत्रितयं बभूव ॥ २५ ॥ शुभ्रं नभोऽभवदभूदपकण्टका भू
भक्त्येव भानुरभिगम्यरुचिर्बभूव । आरोग्यवानजनि जानपदोऽपि लोक
स्तत्कि न यत्सुखनिमित्तमभृत्तदानीम् ॥ २६ ॥ स्नाता इवातिशयशालिनि पुण्यतीर्थ
तस्मिन्रजोव्यपगमात्सहसा प्रसन्नाः । एप्यन्निजप्रणयिनां त्रिदिवात्तदानीं
संयोगयोग्यसमयाः ककुभो बभूवुः ॥ २७ ॥
For Private and Personal Use Only