________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
काव्यमाला |
अष्टोत्तरां दशशतीं शुभलक्षणानां बिभ्रत्स पुण्यविपणिः सहसापि दृष्टः । स्वर्गाद्यतेऽपि परमोत्सवनिर्निमेषाः
काश्चित्रमत्र न चकार चकोरनेत्राः ॥ १५ ॥ गच्छन्नधश्विरतरं जिनजन्मदत्त
हस्तावलम्ब इव निर्मलपुण्यराशिः । अप्रेरितोऽपि भवनामरमन्दिरेषु
निः संख्यशङ्खनिवहः सहसोज्जगर्ज ॥ १६ ॥ रे रे भवभ्रमणजन्मजरान्तकाद्याः सद्यः प्रयात शममेष जिनोऽवतीर्णः । इत्थं प्रशासदिव डिण्डिमचण्डिमोचै:
खं व्यन्तरानकशतध्वनिराततान ॥ १७ ॥ एको न केवलमनेकपमण्डलस्य
१. व्यन्तरो देवयोनिभेदः.
Acharya Shri Kailassagarsuri Gyanmandir
'गण्डाच्छिखण्डिगलकज्जलकान्तिचौरः । ज्योतिर्गृहग्रहिल सिंहसहस्त्रनादै
रुत्कंधरः स जगतोऽपि मदो निरस्तः ॥ १८ ॥ तत्काललास्यरसलालसमोक्षलक्ष्मी
विक्षिप्तपाणिमणिकङ्कणरावरम्यैः ।
जन्मन्यनल्पतरकल्पनिवासिवेश्म
घण्टास्वनैः स्वयमपूरि जगजिनस्य ॥ १९ ॥ बालस्य तस्य महसा सहसोद्यतेन
प्रध्वंसितान्धतमसे सदने तदानीम् । सेवागताम्बरमुनीनिव सप्त काचि
दीपान्व्यबोधयत केवलमङ्गलार्थम् ॥ २० ॥ जन्मोत्सवप्रथमवार्तिकमात्मजस्य तस्य प्रमोदभरदुर्ललितो नरेन्द्रः ।
For Private and Personal Use Only