________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ सर्गः]
धर्मशर्माभ्युदयम् । इत्थं तदर्थकथया हृदि कुल्ययेव
श्रोत्रान्तरप्रहितया हृदयेश्वरेण । देवी प्रमोदसलिलैरभिषिच्यमाना ____वप्रावनीव विलसत्पुलकाङ्कुराभूत् ॥ ८७ ॥ स श्रीमानहमिन्द्र इत्यभिधया देवस्त्रयस्त्रिंशतो
दन्वद्भिः प्रमितायुषो व्यपगमे सर्वार्थसिद्धेश्युतः । चन्द्रे बिभ्रति रेवतीप्रणयतां वैशाखकष्णत्रयो__दश्यां गर्भमवातरत्करितनुः श्रीसुव्रतायास्तदा ॥ ८ ॥ आगत्यासनकम्पकल्पितचमत्काराः सुराः सर्वतो
जम्भारातिपुरःसराः सपदि तां गर्भे जिनं विभ्रतीम् । स्तोत्रैस्तुष्टुवुरिष्टभूषणचयैरानचुरुच्चैर्जगु
भक्त्या नेमुरनर्तिपुर्नवरसैस्तत्कि न यत्ते व्यधुः ॥ ८९ ॥ अहमिह मेहमीहे यावदुच्चैविधातुं ___ कथमिव पुरुहूतोत्पादितं तावदीक्षे । इति मनसि विलक्षं तं क्षितीशं सरत्न
त्रिदशकुसुमवृष्टिच्छद्मना द्यौरहासीत् ॥ ९० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चमः सर्गः ।
षष्ठः सर्गः। सा भारतीव चतुरातिगभीरमर्थ
वेलेव गूढमणिमण्डलमम्बुराशेः । पौरंदरी दिगिव मेरुतिरोहितेन्दु ___ गर्भ तदा नृपवधूर्दधती रराज ॥ १॥ सामादरादुदरिणी रहसि प्रहृष्टा ___ दृष्टिः प्रतिक्षणमुदैक्षतभूमिभर्तुः ।
१. क्षेत्रभूमिरिव, २. उत्सवम्.
For Private and Personal Use Only