________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
अन्तरूव॑फणिविस्फुरत्फणास्थालकोल्बणमणिप्रदीपकैः । निष्फलीकृतरिरंसुभोगिनीफूत्कृतोद्यममहीन्द्रमन्दिरम् ।। ७५ ॥ क्क प्रयासि परिभूय मेदिनी दौस्थ्यमत्पुर इतीव रोषतः । चित्ररत्नचयमुल्लसत्करैः स्फारितोरुहरिचापमण्डलम् ॥ ७६ ॥ तीर्थकर्तुरहमिन्द्रमन्दिरादेष्यतः पथि समृद्धिभावतः । अग्निमग्निकणसंततिच्छलादुत्क्षिपन्तमिव लाजसंचयम् ॥ ७७ ॥ प्रेक्ष्य तत्क्षणविनिद्रलोचना सा विहाय तैलिनं सुभषणा । पत्युरन्तिकमुपेत्य सुव्रता स्वप्नसङ्घमखिलं तमब्रवीत् ।। ७८ ॥ बन्धुरं तमवधार्य तस्य सद्वन्धुरन्तकरमेनसां फलम् । व्याजहार स रदाग्रदीधितिव्याजहारमुरसि प्रकल्पयन् ॥ ७९ ॥ तं निशम्य हृदि मौक्तिकावली दन्तर्द्विगुणयन्मरीचिभिः । प्रीतिकन्दलितरोमकन्दलीसुन्दराकृतिरवीवदन्नृपः ।। ८० ॥
(इति पाठान्तरम्) देवि धन्यचरिता त्वमेव या स्वप्नसंततिमपश्य ईदृशीम् । श्रूयतां सुकृतकन्दलि क्रमाद्वर्ण्यमानमनपायि तत्फलम् ॥ ८१ ॥ वारणेन्द्रमिव दानबन्धुरं सौरभेयमिव धर्मधुर्धरम् । केसरीशमिव विक्रमोदितं श्रीस्वरूपमिव सर्वसेवितम् ॥ ८२ ॥ माल्यवत्प्रथितकीर्तिसौरभं चन्द्रवन्नयनवल्लभप्रभम् । भानुवगुवनबोधकोविदं मीनयुग्मवदमन्दसंमदम् ॥ ८३ ।। कुम्भयुग्ममिव मङ्गलास्पदं निर्मलं सर इव मच्छिदम् । तोयराशिमिव पालितस्थिति सिंहपीठमिव दर्शितोन्नतिम् ॥ ८४ ॥ देवतागमकरं विमानवद्गीततीर्थमुरगस्य हर्म्यवत् । सद्गुणाढ्यमिह रत्नराशिवत्प्लष्टकर्मगहनं च वह्निवत् ॥ ८५ ॥ लप्स्यसे सपदि भूत्रयाधिपं तीर्थनाथममुना त्वमात्मजम् । जायते व्रतविशेषशालिनां स्वप्नवृन्दमफलं हि न क्वचित् ॥ ८६ ॥
१. शय्याम्.
For Private and Personal Use Only