________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ सर्गः] धर्मशर्माभ्युदयम् । उग्रदग्धमधिरोप्य लाञ्छनच्छद्मनात्मभुवमङ्कमात्मनः । ओषधीरसनिषेवणैरिवोज्जीवयन्तमुदितौषधीश्वरम् ॥ ६५ ॥ कौमुदीरसविलासलालसं मीनकेतुनृपतेः पुरोधसम् । कामिनीषु नवरागसंभ्रमाद्वैतवादिनमतिग्मतेजसम् ॥ ६६ ॥
(इति पाठान्तरम्) सर्वथाहमपदोष एव किं ध्यामलो जन इति प्रतिज्ञया । लब्धशुद्धिमुडुदिव्यतण्डुलैश्चर्चितैरिव कृतोत्सवं रविम् ॥ ६७ ॥ स्तम्भितभ्रमितकुञ्चिताञ्चितस्फारितोद्वलितवेल्लितादिभिः । प्रक्रमैविहरदम्बुधौ युगं मीनयोनयनयोरिव श्रियः ॥ ६८ ॥ प्रागरसातलगतस्य तत्क्षणान्निर्यतः सुकृतमत्तदन्तिनः । कुम्भयोरिव युगं समौक्तिकं शातकुम्भमयपूर्णकुम्भयोः ॥ ६९ ॥ अभ्युपात्तकमलैः कवीश्वरैः संश्रुतं कुवलयप्रसाधनम् । द्रावितेन्दुरसराशिसोदरं सच्चरित्रमिव निर्मलं सरः ।। ७० ॥ पीवैरोच्चलहरिव्रजोडुरं सजनक्रमकरं समन्ततः । अब्धिमुंग्रतरवारिमजितक्ष्मीभृतं पतिमिवावनीभुजाम् ॥ ७१ ।। स्वस्वदीधितिपरिग्रहग्रहग्रामवेष्टितमिवाद्रिशेखरम् । चित्ररत्नपरिवेषमुच्चकैश्चारुहेमहरिणारिविष्टरम् ॥ ७२ ॥ अश्मगर्भमणिकिङ्किणीचयैः सानुभावमलताश्रयैरिव । दिव्यगन्धहृतलोलपट्पदैः सस्वनैः सुरविमानमन्वितम् ।। ७३ ॥ मत्तवारणविराजितं स्फुरई जतिभरतोरणोल्बणम् । लोलकेतुष्टतनाकदम्बकं नाकिनामिव विमानमम्बरे ॥ ७४ ॥
__ (इति पाठान्तरम्)
१. महादेवभस्मीकृतम्. २. जलपक्षिश्रेष्ठैः. ३. पीवरोच्चल-हरिव्रजोद्धरम्; (पक्षे) पीवरोच्च लहरि-व्रजोद्धरम्. ४. सज्जन-क्रमकरम् ; (पक्षे) सज्ज-नक्रमकरम्. ५. उप्रतर-वारि; (पक्षे) उग्र-तरवारि. ६. क्ष्माभृतो राजानः पर्वताश्च. ७. मत्तवारणो वरण्डकः; (पक्षे) मत्तगजः, ८. हीरकप्रभाभरनिर्मिततोरणेन; (पक्षे) पविरूपायुधातिशयतः सङ्कामोल्वणम्.
For Private and Personal Use Only