________________
Shri Mahavir Jain Aradhana Kendra
३६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
तावदेव किल कापि वल्लकीवेणुहारि हरिणेक्षणा जगौ । यावदर्थपतिकान्तयोदितां नाशृणोदमृतवाहिनीं गिरम् ॥ १३ ॥ एकया गुरुकलत्रमण्डले धृष्टकामुक इवाधिरोपितः । रागचञ्चलकरायलालितः कूजति स्म हतमानमनकः ॥ ९४ ॥ वल्गितभ्रु नवविभ्रमेक्षणं वेपितस्तनमुदस्तहस्तकम् । चारु चित्रपदचारमेकया नर्तितस्मरमनर्ति तत्पुरः ॥ ५५ ॥ यद्यदिष्टतममुत्तमं च यज्ज्ञातपूर्वमिह यच किंचन । तत्तदाभिरभिकर्मकौशलं स्पर्धयेव विधिवद्वयधीयत ॥ १६ ॥ सर्वतोऽपि सुमनोरमार्पितालंकृतिर्गुणविशेपशालिनी । भारतीय सुकवेरभूत्तदा शुद्धविग्रहवती नृपप्रिया ॥ ५७ ॥ रात्रिशेषसमये किलैकदा सा सुखेन शयिता व्यलोकयत् । स्वमसंततिमिमां दिवोऽर्हतस्तीर्थपद्धतिमिवोत्तरिष्यतः || १८ || संचरत्पदभरेण निर्भरं भज्यमानदृढकूर्मकर्परम् । कल्पगन्धवहलोलमुडुरं राजताद्रिमिव गन्धसिन्धुरम् ॥ १९ ॥ शृङ्गसंततिकदर्थितग्रहं शारदाभ्रमिव शुभ्रविग्रहम् । भूत्रयोत्सवविधायिनं नृषं मूर्तिमन्तमिव विभ्रतं नृपम् ॥ ६० ॥
गर्जितग्लपितदिग्गजावलीगण्डमण्डलमदाम्बुनिर्झरम् ।
एणकेतनकुरङ्गलिप्सयेवान्तरिक्षरचितक्रमं हरिम् ॥ ६१ ॥ रावशेषदलिताम्बुदावलीलग्नलोलरुचिसंचयामिव ।
कंधरामुरुकडारकेसरोल्लासिनीं दधतमुद्धतं हरिम् ॥ ६२ ॥
(इति पाठान्तरम् )
स्फारकान्तिलहरीपरम्पराष्ठावितप्रकृतिकोमलाकृतिम् । तत्क्षणभ्रमदमन्दमन्दरक्षुब्धवारिधिगतामिव श्रियम् ॥ ६३ ॥ संभृतभ्रमरसङ्गिविभ्रमं स्वग्द्वयं शुचि विकासिकौसुमम् । व्योम्न दिग्गजमदाविलं द्विधा जाह्नवौघमिव वायुना कृतम् ॥ ६४ ॥
१. नृपपत्न्या. २. पटह:. ३. धर्मम्.
For Private and Personal Use Only