________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५ सर्गः ]
धर्मशर्माभ्युदयम् ।
तामनेकनरनाथसुन्दरीवृन्दवन्दितपदां द्युयोषितः । हारिहेमहरिविष्टरे स्थितां मानुषेशमहिषीं व्यलोकयन् ॥ ४१ ॥ कुलकम् ) तामुदीक्ष्य जितनाकनायिकाकायकान्तिमबलामिलापतेः । ताभिरप्रतिमकालसंचितोऽप्युज्झितः सपदि चारुतामदः ॥ ४२ ॥ श्रीरशेषसुखदा प्रियंवदा भारती रतिरभेद्य किंकरी | सौम्यदृष्टिरपि कर्णमोटिका कालिका च रचितालकावलिः || ४३ ॥ शीलवृत्तिरपराजिता जने सा वृषप्रणयिनी मनःस्थितिः । ही प्रसत्तिवृतिकीर्तिकान्तयः स्पर्धयेव कुलमण्डनोद्यताः ॥ ४४ ॥ देव्य इत्यलमिमामुपासते प्रागपि प्रगुणिता गुणैः स्वयम् । तन्निदेशरसपेशलं हरेब्रूहि कर्म किमु कुर्महेऽधुना ॥ ४९ ॥ ( कुलकम् ) इत्युदीर्य च मिश्रः प्रणम्य च स्वं निवेद्य च तदिन्द्रशासनम् । स्वः स्त्रियस्त्रिभुवनेशमातरं तां निषेवितुमिहोपचक्रिरे ॥ ४६ ॥ अश्मगर्भमय मूर्ध्वमुद्धृतं छत्रमिन्दुमणिदण्डमेकया । भ्राजते स्म सुदृशोऽन्तरुत्तरज्जाह्नवौघमिव मण्डलं दिवः ॥ ४७ ॥ कापि भूत्रयजयाय वल्गतो वल्गु तूणमिव पुष्पधन्वनः । पुष्पचारु कबरीप्रसाधनं मूर्ध्नि पार्थिवमृगीदृशो व्यधात् ॥ ४८ ॥ अङ्गरागमपि कापि सुभ्रुवः सांध्यसंपदिव निर्ममे दिवः । यामिनीव शुचिरोचिषं परा चारुचामरमचालयच्चिरम् ॥ १९ ॥ मूर्ध्नि रनपुरनाथयोषितः सा कयापि रचितालकावलिः । या मुमोष मुखपद्मसंनिधौ गन्धलुब्धमधुपावलिश्रियम् ॥ ९० ॥ एणनाभिरसनिर्मितैकया पत्रभङ्गिमकरी कपोलयोः । अभ्यधत्त सुतनोरगाधतामुल्लसल्लवणिमाम्बुधेरिव ॥ ५१ ॥ निष्कलङ्कमणिभूषणोच्चयैः सा कयापि सुमुखी विभूषिता । तारतारकवतीन्दुसुन्दरी शारदीव रजनी व्यराजत ॥ ५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३५
१. मनोहरे सुवर्णसिंहासने. २. भूपतेः ३. चामुण्डा . ४. हरिन्मणिमयम्. ५, लावण्यसिन्धोः.