________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
निर्जरासुरनरोरगेषु ते कोऽधुनापि गुणसाम्यमृच्छति । अग्रतस्तु सुतरां यतो गुरुस्त्वं जगत्रयगुरोर्भविष्यसि ॥ २९ ॥ उक्तमागमनिमित्तमात्मनः सूत्रवत्किमपि यत्समासतः । तस्य भाष्यमिव विस्तरान्मया वर्ण्यमानमवनीपते शृणु ॥ ३० ॥ यच्चतुष्टयमनन्ततीर्थतोऽनर्धहायनमुदन्वतामगात् । तस्य पल्य (१) दलमन्तिमं तथा भारतेऽभवदधर्मदूषितम् ॥ ३१ ॥ तेन धर्मपरिवर्तदस्युना शुद्धदर्शनमणौ हृते छलात् । । वीक्षमाण इव केवलीश्वरं वासवोऽनिमिषलोचनोऽभवत् ॥ ३२ ॥ अद्य भूप भवतोऽस्ति या प्रिया सुव्रता तदुदरे जिनोऽन्तरम् । अर्धवत्सरमतीत्य धर्म इत्येप्यतीत्यवधितो विवेद सैः ॥ ३३ ॥ तत्प्रयाथ जननीं जिनस्य तां भाविनी चिरमुपाध्वमादरात् । इत्थमादिशदशेषनाकिनां नायकः समुपहूय नः क्षणात् ॥ ३४ ॥ आगतोऽयमिह तत्तवाज्ञया प्रेयसी नृप निशान्तवर्तिनीम् । ध्यातुमिच्छति सुराङ्गनाजनः कौमुदीमिव कुमुद्दतीगणः ॥ ३५ ॥ संवदन्तमिति भारती मुनेर्वाक्प्रपञ्चमवधार्य स श्रियः। उत्सवं द्विगुणितादरो द्वयेऽप्याशु धाम्नि पुरि च व्यदीधपत् ॥ ३६॥ ताश्च कञ्चुकिपुरःसरास्ततस्तेन तूर्णमवरोधमन्दिरम् । भास्वताग्रचरसंमदा रुचश्चन्द्रमण्डलमिव प्रवेशिताः ॥ ३७ ॥ तत्र भूरिविबुधावतंसकप्रीतिपूरिगुणपूरपूरिताम् । अङ्गसौरभविसर्पिषट्पदा पारिजाततरुमञ्जरीमिव ॥ ३८ ॥ संभ्रमभ्रमितलोललोचनप्रान्तवान्तशुचिरोचिषां चयैः । अद्भुतं धवलितालयामपि ध्यामलीलतविपक्षयोपितम् ॥ ३९ ॥ कामसिद्धिमिव रूपसंपदो जीवितव्यमिव यौवनश्रियः । चक्रवर्तिपदवीमिव द्युतेश्चेतनामिव विलासवेषयोः ॥ ४० ॥
१. मासषट्कोनजल धिमितवर्षीणामू. २. जिनम्. ३. इन्द्रः, ४. मलिनीकृत.
For Private and Personal Use Only