________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
दैवादवाप्य तपनीयनिधानकुम्भी
साशङ्करङ्ककुलमूलकुटुम्बिनीव ॥ २ ॥ अन्तर्वपुः प्रणयिनः परमेश्वरस्य
निर्यद्यशोभिरिव सा परिरभ्यमाणा । स्वल्पैरहोभिरभितो घनसारसार
क्लृप्तोपदेहमिव देहमुवाह देवी ॥ ३ ॥ तृष्णाम्बुधेरपरपारमुपागतं च
निर्बन्धनं च तनयं जनयिष्यतीयम् । तेनावरुद्धकलकेलिशकुन्तमुक्ति
मुक्त्वान्यवस्तुषु बबन्ध न दोहदानि ॥ ४ ॥ वृद्धि परामुदरमाप यथायथास्याः
श्यामाननः स्तनभरोऽपि तथातथाभूत् । यहा नितान्तकठिनां प्रकृति भजन्तो
मध्यस्थमप्युदयिनं न जडाः सहन्ते ॥ ५ ॥ तस्याः कपोलफलके स्फटिकाश्मकान्तौ __ कंदर्पदर्पण इव प्रतिबिम्बिताङ्गः । रात्रावलक्ष्यत जनैर्यदि लाञ्छनेन
श्रीकण्ठकण्ठजरठच्छविना मृगाङ्कः ॥ ६ ॥ एकेन तेने बलिना स्वबलेन तस्या
भङ्क्त्वा बलित्रयमवर्धत मध्यदेशः । तेनैव संमदरसेन सुहृत्तदाभू
दत्यन्तपीवरतरः कुचकुम्भभारः ॥ ७ ॥ उत्खातपकिलबिसाविव राजहंसौ
__शुभ्रौ सभृङ्गवदनाविव पद्मकोपौ । १. भूमितलादेवानुकूल्येन लब्धसुवर्णकलशा मा कश्चिद्धापादिति भयाकुला दरिद्रगहिणीव. २. तेन गर्भस्थेन.
For Private and Personal Use Only