________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
शुभसुभगिमभङ्गीभाजनं भक्तिभाजा
मभिमतफलकल्पानोकहः शोकहर्ता ॥ २ ॥ शरदुडुपरुचिश्रीगर्वसर्वस्वचौरै
र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः । दधदलिकुलनीलं भावितानं नताना
मुपनयतु समृद्धीराश्वसावाश्वसेनिः ॥ ३ ॥ किमपि जिन विजेतुं दुःशकानां शकानां
महिम तलिनयन्त(?)स्त्वत्प्रभावस्य लेशाः । प्रसृमरकलिकालक्षोणिपालप्रताप- प्रतिहतिकृतहस्ताः स्वस्ति विस्तारयन्ति ॥ ४ ॥ सुहृदति रिपुवारः क्षीरति क्षारनीरं
तुहिनति दहनोऽहिः पद्मिनीनालति द्राक् । स्थलति जलधिरेणत्येणराजः करीन्द्रो
गवति भवति भक्तिं बिभ्रतामीश पुंसाम् ॥ ५ ॥ नतशखमखचूडारत्नरोचिष्णुरोचिः
कवचितचरणाम्भोजाग्रजाग्रन्नखार्चिः । पुलकनिचुलिताङ्गैरुत्प्रमोदैन कैः कै
रमृतपदसुखाय स्तूयसे भूयसे त्वम् ॥ ६ ॥ इदमिन तव चैत्यं शैत्यकृल्लोचनानां __कलितकलिवितण्डं मण्डपाखण्डितश्रि । तुलितसुरविमानं मानवानाममानां
दिशति मुदमुदग्रस्तम्भपाञ्चालिकाभिः ॥ ७ ॥ तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः
क इति लपतु नेतुयुक्तिरिक्तं खलोऽपि । दिवि विबुधगणानां त्वत्पुरो दास्यभाजां
दधति खलु सदा यद्देहदासत्वमेते ॥ ८ ॥
For Private and Personal Use Only