________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवीरनिवोणकल्याणकस्तवः । तव तनुरुचिसालं नम्रमूर्धा जनोऽयं
प्रतिफलितमसक्तं स्वे ललाटे विचिन्त्य । मरकतदलनील ध्यानसिद्धिं व्यपोढ
श्रममुपलभते ही लोभऋद्धेर्निदानम् ॥ ९ ॥ सकलकुशलसंपद्वीरुधां वारिवाहः
प्रचितदुरितकक्षप्रक्षये हव्यवाहः । कमठधरणपद्मापार्श्वयक्षैश्विराय
त्वमचिरहितपार्थः पार्श्वतीर्थेश नन्द्याः ॥ १० ॥ सफलय फलव/चैत्यलक्ष्मीवतंस
त्रिजगदभयदातर्मङ्गु नः काङ्कितानि । स्तवनमवनमेतच्चेतसस्तावकीनं
विलसतु रसनाग्रे चातुरीचञ्चुवाचाम् ॥ ११ ॥ नन्दतुज्वलनक्षपाकर(१३६९)मिते संवत्सरे वैक्रमे
राधस्याधिशिती त्रयोदशिबुधे संघेन सार्ध सुधीः । यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो श्रीमत्पार्श्व जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ १२॥
इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः ।
जिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः । श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे
भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेऽहर्मणेः । कुर्वे किंचन काञ्चनोज्ज्वलरुचेनिर्वाणकल्याणक
स्तोत्रं गोत्रभिदर्चनीयचरणाम्भोजस्य वीरप्रभोः ॥ १ ॥ प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदेवतःगे । तामुपायत रसेन (१) कार्तिकामावसी निशि शिवश्रियं भवान् ॥ २॥
For Private and Personal Use Only