________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पार्श्वस्तवः।
११७ अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियचिरम् । महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका ॥ २२ ॥ कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम् । अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः ॥ २३ ॥ त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ । गुणगणान्मम मा म विरज्यतामुदयिता दयितादयि तावकात् ॥२४॥ च्युतजनुतकेवलनिर्वृतिक्षणदिनाददतां मुदमार्हता ।। व्यरचि यैरुपयत्रिदशैईशां नवसुधा वसुधावसुधामभिः ॥ २५ ॥ इति जिनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैर्नुताः । बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्ति भित् ॥२६॥ सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः । ददतु तीर्थकृतो मम निर्ममा शमरमामरमा मरमानिताः ॥ २७ ॥ जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरवकौमुदी । शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती ॥ २८ ॥ करकृताम्रफला पृणती जिनप्रभवतीर्थमिभारिमधिष्ठिता। हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्बिका ॥ २९ ॥
इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विंशतिजिनस्तवः । श्रीजिनप्रभसूरिविरचितः
पार्श्वस्तवः। अधियदुपनमन्तो यात्रिकाः प्रीतिपात्रा
अविकलफलशालि प्राणितं मन्वते खम् । स जयति फलवर्धिस्ता(स्था)नक्लुप्तावतार
स्त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः ॥ १ ॥ जिनविभुरविभाव्यं वैभवं भूरि बिभ्र
द्भवतु भुजगभोगाभोगविभ्राजिमौलिः ।
For Private and Personal Use Only