________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विंशतिजिनस्तवः ।
स्फूर्जित्वेका तु भक्तिस्तव मम मनसि ध्वस्ताखिलमला कैवल्यश्रीर्यया स्यात्करतलनिलया साहाय भगवन् ॥ २४ ॥ श्रीवीरः सर्वदिक्कैः कनकरुचितनूरोचिरुद्दीप्तदीपै
मङ्गल्यः सोऽस्तु दीपोत्सव इव जगदानन्दसंदर्भकन्दः । सूक्तिर्जेनप्रभीयं मृदुविशदपदा स्रग्धराधीयमाना भव्यानां भव्यभूत्यै भवतु भवतुदे भावनाभावितानाम् ॥ २९ ॥ इति श्रीजिनप्रभसूरिविरचितो वीरस्तवः ।
For Private and Personal Use Only
११५
श्री जिनप्रभसूरिविरचितः चतुर्विंशतिजिनस्तवः । कनककान्तिधनुःशतपञ्चकोच्छ्रितवृषाङ्कितदेहमुपास्महे । रतिपतेर्जयिनं प्रथमं जिनं नृवृषभं वृषभं वृषभञ्जिनः ॥ १ ॥ द्विरदलाञ्छित वाञ्छितदायक कमलुठत्रिदशासुरनायक । स्तुतिपरः पुरुषो भवति क्षितावजित राजितरा जितराग ते ॥ २ ॥ तुरगलाञ्छन संभव संभवत्वहरिदं जिन यत्र रसादहम् । हृदि दधे भणितीर्गुणभूरुहां शमहिता महिता महि तावकीः ॥ ३ ॥ भवमहार्णवनिस्तरणेच्छया त्वमभिनन्दन देव निषेव्यसे । व्रतभृतां कुगतेः स्मरनिग्रहप्रसभया सभया सभयात्मना ॥ ४ ॥ त्रिभुवनामित कामितपूरणे सुरतरोरुपमामतिगामुकौ । तव विभो भजते भवतः क्रमावसुमते सुमते सुमतेर्दद || ९ || धरनृपात्मज षष्ठजिनेश्वर त्वयि कृतप्रणयः क्रियते पतिः । रभसतः प्रथितार्थितोपरमया रमयारमयान्वितः || ६ || ॥ ॥ प्रभुसुपार्श्व जगत्रितयाज्जनुः पवितकाशिपुरीक विलक्षण । सुकृतिनः कृतिनश्चरितं विदुः सुभवतो भवतो भवतोदनम् ॥ ७ ॥ कुनयकाननभञ्जनकुञ्जराः शशिरुचे महसेनसुत प्रभो । निखिलजीवनिकायदितोक्तिभिः शुभवदाभवदाभवदागमाः ॥ ८ ॥