________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
प्रागेव विक्रमश्लाध्यो भवानीतनयोऽप्यभूत् । व्यक्तं · पुनर्महासेनो महासेनावृतस्तदा ॥ २१ ॥ उच्चैस्तनशिखोलासिपत्र शोभामदूरतः । वनाली वीक्ष्य भूपाल: प्रेयसीमित्यभाषत ॥ २२ ॥ कान्तारतरवो नैते कामोन्मादकृतः परम् । अभवन्नः प्रीतये सोऽप्युद्यन्मधुपराशयः ।। २३ ।। अनेकविटॅपस्पृष्टपयोधरतटा स्वयम् । वदत्युद्यानमा लेय मै कुलीनत्वमात्मनः ॥ २४ ॥ उल्लसत्केंसरो रक्तपलाशः कुञ्जराजितः । कण्ठीरव इवारामः कं न व्याकुलयत्यसौ ॥ २५ ॥ सैन्य कोलाहलोत्तिष्ठद्विहंगावलयो द्रुमाः । अस्मदागमनोत्क्षिप्तपताका इव भान्त्यमी ॥ २६ ॥ संचरच्चञ्चरीकाणां धोरणिस्तोरणस्त्रजम् । विडम्बयति कान्तारे हरिन्मणिमयीमियम् ॥ २७ ॥ पल्लवव्याष्टतास्यानां सूरस्यन्दनवाजिनाम् । फेनलेशा इवाभान्ति द्रुमाकुसुमोत्कराः ॥ २८ ॥ त्वङ्गत्तुङ्गतुरंगोमैस्तीरगं सैन्यवारिधेः । पुञ्जिता बालशेवालशोभामभ्येति काननम् ॥ २९ ॥
१. भवानी तनयः (कार्तिकेयः) . स च वेः पक्षिणः स्ववाहनमयूरस्य क्रमेण पादन्यासेन श्लाघ्यः; (पक्षे ) भव- आनीत - नयः २. महासेन इति कार्तिकेयस्य नामान्तरम्; ( पक्षे ) महती सेना यस्य ३. उच्चैः - स्तनशिखा (कुचाग्रभागः ); उच्चैस्तन - शिखा. ४. उद्यन्मधुपराशयः समुहसमरश्रेणयः कामोन्मादकृतो मदनोद्दीपकाः कान्तार-तरवो वनवृक्षाः परं नः प्रीतयेऽभवन् सोऽपि कान्ता-रत-रवः कान्तायाः सुरतकालीनं मणितं नः प्रीतयेऽभवत् कीदृशः कान्तारतरवः कामोन्मादेन कृतः; उद्यत् मधु-पर- आशयश्च. ५. षिङ्गस्पृष्टकुचा; वृक्षस्पृष्टमेवा च. ६. नीच कुलोत्पन्नत्वम् अभूमिलीनत्वं च उन्नतत्वमिति यावत्. ७. केसरो वृक्षविशेषः; (पक्षे) उल्लसत्स्कन्धोत्पन्नकेशः ८. रक्तवर्णा पलाशा यस्मिन् ; (पक्षे ) रक्तं रुधिरं पलं मांसं चाश्नाति ९० कुञ्ज-राजितः; कुञ्जर-अजितः.
For Private and Personal Use Only