________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ३ सर्गः]
धर्मशर्माभ्युदयम् । परस्पराङ्गसंघभ्रष्टहारावचूलकैः । पथि दुःसंचरो मार्गो मार्गः पाशैरिवाभवत् ॥ १२ ॥ दृष्टया कुवलयस्यापि जेता देर्शितविग्रहः । नेत्रोत्सवाय नारीणां नारीणां सोऽभवन्नृपः ॥ १३ ॥ सोऽङ्गलावण्यसंक्रान्तपौरनारीनरेक्षणः। गेन्धर्वैरातः साक्षात्सहस्राक्ष इवाबभौ ॥ १४ ॥ बभुस्तस्य मुखाम्भोजपर्यन्तभ्रान्तषट्पदाः । अन्तर्मुनीन्दुसंधानान्नियाहान्तलवा इव ॥ १५ ॥ बिभ्रत्संविभ्रमश्चारुतिलकामलकावलिम् ।। उल्लसत्पत्रवल्लीको दीर्घनेत्रधृताञ्जनः ॥ १६ ॥ युक्तोऽप्युत्तालपुनांगैः सौलसंगममादधत् । कामाराम इवारामं पौररामाजनो ययौ ॥ १७ ॥ (युग्मम) पुरंध्रीणां स वृद्धानां प्रतीच्छन्नाशिषः शनैः । इष्टसिद्धेरिव द्वारं पुरः प्राप महीपतिः ॥ १८ ॥
यतिभावपरः कान्ति विभ्रदभ्यधिकां नृपः । निश्चक्राम पुराच्छोकः कवीन्द्रस्य मुखादिव ॥ १९ ॥ शाखानगरमालोक्य पुरः प्रान्ते स पिप्रिये । तनूजमिव कान्ताया बहुलक्षणमन्दिरम् ॥ २० ॥
१. मृगसमहः. २. भूमण्डलस्य; उत्पलत्य च. ३ दर्शितशरीरः; कृतयुद्धश्च. ४. नअरीणाम्. ५. अश्वैः; देवयोनिविशेषैश्च. ६. पक्षिणां भ्रमणेन सहितः; हावविशेषसहितश्च. ७. चारुतिलकयुक्तां चूर्णकुन्तलपङ्गिम् ; (पक्षे) तिलक आमलकश्च वृक्षविशेषौ. ८. कस्तू. र्यादिरसेन स्तनकपोलादिषु कृता रचना पत्रवली; (पक्षे) उल्लसन्त्यः किसलययुक्ता लता यस्मिन्सः. ९. दीर्घलोचनन्यस्तकज्जल:; (पक्षे) दीर्पण मलेन धृता अञ्जना वृक्षवि. शेषा यत्र. १०. वृक्षविशेषैः; पुरुषश्रेष्ठैश्वः. ११. सालसं-गमम् ; साल-संगमम्. सालो वृक्षविशेषः. १२. नगरस्य. १३. यतिः संन्यासी; (पक्षे) पाठविच्छेदस्थलम्. १४. बहलक्षण; बहु-लक्षण. क्षण उत्सवः.
For Private and Personal Use Only