________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
३ सर्गः
धर्मशर्माभ्युदयम् । . उत्क्षिप्तसहकाराग्रमञ्जरीरुक्मदण्डिकः । उत्सारयंल्लवङ्गलालाञ्चिकर्पूरचम्पकान् ॥ ३० ॥ कासारसीकरासारमुक्ताहारविराजितः । प्रेर्यमाणो मुहुर्वेलाइताहस्ताग्रसंज्ञया ॥ ३१ ॥ अयमस्माकमेणाक्षि चन्दनामोदसुन्दरः । मरुदभ्यर्णतामेति वेत्रीवोद्यानभूपतेः ॥ ३२ ॥ (विशेषकम्) तन्वाना चन्दनोद्दामतिलकं वदने किल। करोत्यक्षतर्वाभिर्मङ्गलं मे वनस्थली ॥ ३३ ॥ एताः प्रवालहारिण्यो मुदा भ्रमरसंगताः । मरुन्नर्तकतालेन नृत्यन्तीव वने लताः ॥ ३४ ॥ निरूपयन्निति प्रीत्या प्रियायाः प्राप्य काननम् । तत्क्षणादक्षमत्याक्षीदौद्वत्यमिव पार्थिवः ॥ ३५ ॥ तत्कालोत्सारिताशेषराजचिह्नो व्यराजत । गुरून्नभिव्रजन्नेष विनयो मूर्तिमानिव ॥ ३६ ॥ नक्षत्रैरुन्नतैर्युक्तः सकान्तः केलिकाननम् । कराग्रं कुद्मलीकृत्य रोजा वनमिवाविशत् ॥ ३७ ॥ ददर्शाशोकमस्तोकस्तबकैस्तत्र पाटलम् । रागैश्छन्नमिवासन्नमुनीनां मुक्तमानसैः ॥ ३८ ॥ अवस्तात्तस्य विस्तीर्णे स्फाटिकोपलविष्टरे । तपः प्रगुणितागण्यपुण्यपुञ्जमिव स्थितम् ॥ ३९ ॥ दत्तनेत्रोत्सवारम्भमाश्रितं मुनिसत्तमैः ।
क्षरिव घरोत्तीर्ण क्षणं नक्षत्रनायकम् ॥ १० ॥ १. प्रतीहार:. २. चन्दनवृक्षणोदामं तिलकं वृक्षविशेषम; (पक्षे) चन्दनस्योद्दामं तिलक विशेषकम्. ३. अक्षताभिर्वाभिः; अतिर मग्नतण्डुलैयुक्ताभिवाभिश्व. १. प्रवालैः पल्लवैः: विद्रमैश्च. ५. भ्रमर-संगता:; भ्रमरम-गता:. ६. अक्षं रथम; आयव्ययादिव्यवहार - चिन्तां वा. ७. न-क्षत्रैः क्षत्रियैः; (पक्षे) उडुभिः ८. बद्धाञ्जलिः; संकुचितकिरणश्च. ९. राजा चन्द्रः.
For Private and Personal Use Only