________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८८
काव्यमाला |
अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ ८ ॥
तमेव सधं गृहं तदरोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनगरस्य द्वाराणीवानुयोगद्वाराणि जीयासुः ॥
अनवमनवमरससुधाहृदिनों षट्त्रिंशदुत्तराध्यायिनीम् ।
Acharya Shri Kailassagarsuri Gyanmandir
अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥ ९ ॥
नवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य हृदिनीं नदीं षट्त्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [ यस्यां] तामहमञ्चयामि पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमिपार्श्वश्रीवीरतीर्थवतिभिर्नारदादिभिः प्रणीतानध्ययन विशेषान् ॥ उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु ।
महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्ये गमनं गजेन्द्रम् ॥ १० ॥
आचारविचारचारु योगानुष्ठानपूर्व यथा स्यादेवम् आचारप्रतिपादकत्वादाचारं नामाद्यमङ्गमहं प्रपद्ये श्रये । किंविशिष्टम् । उच्चैस्तराः शब्दार्थाभ्यामतिशायिन्य उदश्चिताः प्रकटीकृता पञ्च चूडा येन तत् । उक्तशेषानुवादिनोऽधिकारविशेषाश्रूडासंज्ञा: । पुनः किंविशिष्टम् । महापरिज्ञानामाध्यायनं तत्रस्था आकाशगामिनीविद्या तस्य । तत एवोद्धृत्य श्रीवज्रस्वामिना प्रभावना कृता ॥ त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददर्पाद्विविभेदवादिनीम् ।
द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृदङ्गमाद्रिये ॥ ११ ॥ श्रुतस्कन्धद्वयरूपं सूत्रकृदङ्गं शिवश्रिये कृतस्पृहोऽहमाद्रिये आश्रयामि । किंविशिष्टम् । त्रिषष्ट्यधिकशतत्रयीमिता ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्पाद्विविभेदे ह्रादिनीं वज्रसमम् ॥
स्थानाङ्गाय दशस्थानस्थापिताखिलवस्तुने |
नमामि कामितफलप्रदानसुरशाखिने ॥ १२ ॥
कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु ] इति स्थानान्यधिकारविशेषाः । तथाहि - ' तनुइन्दा.. 'कम्म बन्धन्ति' इत्यादयः । एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाङ्गायाहं नमामि | 'विवक्षातः कारकाणि भवन्ति' इति न्यायात्स्थानाङ्गायेति संप्रदानम् ॥
तत्तत्संख्याविशिष्टार्थप्ररूपणपरायणम् ।
संस्तुमः समवायाङ्कं समवायैः स्तुतं सताम् ॥ १३ ॥
तास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽर्थास्तेषां प्ररूपणं कथनं तत्र परायणं तत्परं सतां समवायैः समूहैः स्तुतं समवायाङ्गं वयं स्तुमः ॥
For Private and Personal Use Only