________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तागमस्तवः।
या षट्त्रिंशत्सहस्रान्प्रतिविधिसजुषां बिभ्रती प्रश्नवाचां __चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गानयगमगहना दुर्विगाहा विवाह
प्रज्ञप्ती पञ्चमाझं जयति भगवती सा विचित्रार्थकोषः ॥ १४ ॥ या प्रतिविधिरुत्तरं तेन सहितानां प्रश्नवाचां षट्त्रिंशत्सहस्रान्बिभ्रती दधती या चत्वारिंशच्छतेष्वधिकारविशेषेषदेशकानां श्रेणि परितः सर्वतः प्रथयति सा विवाहप्रज्ञप्ती नाम्नी पश्चमाङ्ग रङ्गन्तो ये भङ्गा रचनाविशेषास्तैरुत्तरङ्गा उत्कल्लोला तया युक्तयो गमाः सदृशपाठास्तैर्गहना ग्रन्थिला अकुशलैर्विगाहा विचित्रार्थकोषो जयति । भगवतीति पूज्याभिधानम् ॥
कथानकानां यत्रार्धचतस्त्रः कोटयः स्थिताः ।
सोत्क्षिप्तादिज्ञातहृद्या ज्ञातधर्मकथाः श्रये ॥ १५ ॥ यत्रार्धचतस्रः कथानकानां कोटयः स्थिता सा ज्ञातधर्मकथा नाम षष्ठमङ्गमुत्क्षिप्तादिभितैिदृष्टान्तै«द्या श्रियेऽस्तु (श्रये) ॥
आनन्दादिश्रमणोपासकदशकेतिवृत्तसुभगार्थाः। ' विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥ १६ ॥ आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्येतिवृत्तानि चरितानि तैः सुभागार्था उपासकदशा नाम सप्तमाङ्गं विशदां भावदृशं मम सदा दिशन्तु ।
महदृषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् ।
अधिकृतशिवान्तसुकृताः स्मरतोच्चैरन्तकृद्दशाः कृतिनः ॥ १७ ॥ गौतमपद्मावतीप्रमुखाणां महर्षीणां महासतीनामधिकृतानि प्रकटितानि शिवान्तानि सुकृतानि यासु ता अन्तकृद्दशा हे कृतिनः, उच्चैयूँयं स्मरत ॥ गुणैर्यदध्ययनकलापकीर्तिता अनुत्तरा प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥१८॥ यदध्ययनकलापे कीर्तिताः कथिता: प्रशमिषु ऋषिषु गुणैश्चारित्रादिभिरनुत्तराः प्रधानाः । जालिमुख्यका जालि म ऋषिः स एव मुख्यो येषां ते जालिमुख्यकाः । स्वार्थे कप्रत्ययः । अणुत्तराणि विजयादीनि पञ्चविमानानि तेषां श्रियमभजन् । अनुत्तरोपपातिकमित्युपपदं पूर्वपदं यासां ता अनुत्तरोपपातिकदशा अहं श्रयामि ॥ अङ्गुष्ठाद्यवतरदिष्टदेवतानां विद्यानां भवनमुदात्तवैभवानाम् । निर्णीताश्रयविधिसंवरस्वरूपा प्रश्नव्याकरणदशा दिशन्तु शं नः ॥१९॥
१२
For Private and Personal Use Only