________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
काव्यमाला ।
श्रीजिनप्रभसूरिविरचितः सिंद्धान्तागमस्तवः।
सावचूरिः। ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् ।
स्तुतिद्वारा जयश्रीदः श्रीवीरगुरुगो रवः ।। पुरा श्रीजिनप्रभसूरिभिः प्रतिदिनं नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां स्वशैक्षशिष्यादिपठनविलोकनाद्यर्थ यमकश्शेषचित्रच्छन्दोविशेषादिनवनवभङ्गीसुभगाः सप्तशतीमिताः स्तवा उपदीकृता निजनामाङ्किताः । तेष्वयं सर्वसिद्धान्तस्तवो बहूपयोगित्वाद्विवियते
नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥ १॥ गुरुभ्यः श्रुतदेवतायै सरस्वत्यै सुधर्मणे च पञ्चमगणधराय नत्वा । त्रिषु नतिक्रिया। 'अभिप्रेयत्वाच्चतुर्थी' इति सूत्रेण संप्रदानाच्चतुर्थी । श्रुतभक्तिप्रेरितोऽहं निरुद्धा रुद्धा नाना अविरतिकषायादिभिर्बहुविधानां वृजिनानां पापानामागमाः प्रसरणानि यैस्तेषां जिनागमानां श्रीवीरसिद्धान्तानां स्तवनं तनोमि करोमि ।।
सामायिकादिकषडध्ययनस्वरूप.. मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्तिभाप्यवरचूर्णिविचित्रवृत्ति
स्पष्टीकृतार्थनिवहं हृदये वहामि ॥ २ ॥ अवश्यकरणादावश्यकम् । सामायिकादिकानि सामायिक-चतुविशतिस्तव-वन्दनकप्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानरूपाणि यानि षडध्ययनानि तत्स्वरूपम् । शिवरमाया (मोक्षलक्ष्म्याः ) वदनात्मदर्श दर्पणतुल्यम् । पुनः किंविशिष्टम् । नियुक्तिः श्रीभद्रबाहु. कृता एकत्रिंशच्छतप्रमाणा । भाष्यं सूत्रार्थप्रपञ्चनम् । वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्वर्षिविहिता । विचित्रवृत्तिरनुगतार्थकथनं द्वाविंशतिसहस्रप्रमाणम् । एताभिः स्पष्टीकृतोऽर्थनिवहो यस्य तथाविधं हृदये वहामि स्मरामि ॥
युक्तिमुक्तास्वातिनीरं प्रमेयोमिमहोदधिम् ।
विशेषावश्यक स्तौमि महाभाष्यापराद्वयम् ॥ ३॥ १. स्तोत्रस्यास्यैकमेवाष्टपत्रात्मकं सटीकं पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनीनां सकाशादधिगतम्. तच्च नातिशुद्धं शतवर्षप्राचीनमिवानुमीयते. तदाधारेणैतन्मुद्रणं विहितमस्ति.
For Private and Personal Use Only