________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
२ सर्गः]
धर्मशर्माभ्युदयम् । सती च सौन्दर्यवती च पुंवरप्रसूश्च साक्षादियमेव भूत्रये । इतीव रेखात्रयमक्षतस्मयो विधिश्चकारात्र बलित्रयच्छलात् ॥ ४५ ॥ गुरोनितम्बादिह कामिकं गतः स नाभितीर्थ प्रमथेशनिर्जितः । समुल्लसल्लोमलतारुरुच्छविः स्मरस्त्रिदण्डं त्रिवलिच्छलाद्दधौ ॥ ४६ ॥ कृतौ न चेत्तेन विरश्चिना सुधानिधानकुम्भौ सुदृशः पयोधरौ । तदङ्गलग्नोऽपि तदा निगद्यतां स्मरः परासुः कथमाशु जीवितः ॥ ४७ ॥ सुरतवन्तीकनकारविन्दिनी मृणालदण्डाविव कोमलौ भुजौ । करौ तदने शुचिकङ्कणाङ्कितौ व्यराजतामबजनिभौ च सुभ्रवः ॥ १८ ॥ सपाञ्चजन्यः कररुक्मकङ्कणप्रभोल्वणः स्याद्यदि कैटभद्विषः । स्फुरत्रिरेखं किल कण्ठकन्दलं तदोपमीयेत न वा नतभ्रवः ॥ ४९ ॥ कपोलहेतोः खलु लोलचक्षुपो विधिय॑धात्पूर्णसुधाकरं द्विधा । विलोक्यतामस्य तथाहि लाञ्छनच्छलेन पश्चात्कृतसीवनव्रणम् ॥ ५० ॥ प्रवालबिम्बीफलविद्रुमादयः समा बभूवुः प्रभयैव केवलम् । रसेन तस्यास्त्वधरस्य निश्चितं जगाम पीयूषरसोऽपि शिष्यताम् ॥ ११ ॥ अनादरेणापि सुधासहोदरीमुदीरयन्त्यामविकारिणी गिरम् । वियेव काष्ठत्वमियाय वल्लकी पिकी च कृष्णत्वमधारयत्तराम् ॥ ५२ ॥ ललाटलेखाशकलेन्दुनिर्गलसुधोरुधारेव घनत्वमागता । तदीयनासा द्विजरत्नसंहतेस्तुलेव कान्त्या जगदप्यतोलयत् ॥ ५३ ॥ जितास्मदुत्तंसमहोत्पलैयुवां क्व याथ इत्यध्वनिरोधिनोरिव । उपात्तकोपे इव कर्णयोः सदा तदीक्षणे जग्मतुरन्तशोणताम् ॥ १४ ॥ इमामनालोचनगोचरां विधिविधाय सृष्टेः कलशार्पणोत्सुकः । लिलेख वक्त्रे तिलकाङ्कमध्ययोर्भुवोर्मिषादोमिति मङ्गलाक्षरम् ॥ ५५ ॥ उदीरिते श्रीरतिकीर्तिकान्तिभिः श्रयाम एतामिति मौनवान्विधिः । लिलेख तस्यां तिलकाङ्कमध्ययो वोर्मिषादोमिति संगतोत्तरम् ॥ ५६ ॥ कपोललावण्यमयाम्बुपल्वले पतत्सतृष्णाखिलनेत्रपत्रिणाम् । ग्रहाय पाशाविव वेधसा कृतौ तदीयकर्णी पथुलांसचुम्बिनौ ॥ १७ ॥
For Private and Personal Use Only