________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
काव्यमाला। महानदीनोऽप्यजडाशयो जगत्यनष्टसिद्धिः परमेश्वरोऽपि सन् । बभूव राजापि निकारकारणं विभावरीणामयमद्भुतोदयः ॥ ३३ ॥ तरङ्गिताम्भोधिदुकूलशालिनीमखर्वपूर्वापरपर्वतस्तनीम् । वरोरुदेशे स निधाय कोमलं करं बुभोजैकवधूमिव क्षितिम् ॥ ३४ ॥ अथास्य पत्नी निखिलावनीपतेर्बभूव नाम्ना चरितैश्च सुव्रता । स्थितेऽवरोधे प्रचुरेऽपि या प्रभोरभूत्सुधांशोरिव रोहिणी प्रिया ॥३५॥ सुधासुधारश्मिमृणालमालतीसरोजसारैरिव वेधसा कृतम् । शनैः शनैग्थ्यिमतीत्य सा दधौ सुमध्यमा मध्यममध्यमं वयः ॥ ३६ ॥ स्मरेण तस्याः किल चारुतारसं जनाः पिबन्तः शरजर्जरीकृताः । स पीतमात्रोऽपि कुतोऽन्यथागलत्तदङ्गतः स्वेदजलच्छलाद्वहिः ॥ ३७ ॥ इतः प्रभृत्यम्ब न ते मुखाम्बुजश्रियं हरिप्येऽहमितीव चन्द्रमाः । प्रतीतयेऽस्याः सकुटुम्बको नखच्छलेन साध्व्याश्चरणाग्रमस्टशत् ॥ ३८॥ प्रयाणलीलाजितराजहंसकं विशुद्धपाणि विजिगीपुवत्स्थितम् । तदभिमालोक्य न कोषदण्डभाभियेव पद्मं जलदुर्गमत्यजत् ॥ ३९ ॥ सुटत्तमप्याप्तजडोरुसंगमं तदीयजङ्घायुगलं विलोमताम् । तथा दधावप्यनुयायिनं जनं चकार पञ्चेपुकदर्थितं यथा ॥ ४० ॥ उदश्चदुच्चैःस्तनवप्रशालिनस्तदङ्गकंदर्पविलासवेश्मनः । वरोरुयुग्मं नवतप्तकाञ्चनप्रपञ्चितस्तम्भनिभं व्यराजत ॥ ११ ॥ जडं गुरू कृत्य नितम्बमण्डलं स्मरेण तस्याः किल शिक्षितं कियत् । तथाप्यहो पश्यत सर्वतोऽमुना बुधाधिपानामपि खण्डितो मदः ॥ ४२ ॥ गभीरनाभिह्रदमजदुडुरस्मरप्रभिन्नद्विपगण्डमण्डलात् । समुच्चलन्तीव मधुव्रतावलिर्बभौ तदीयोदररोममञ्जरी ॥ १३ ॥ सुहृत्तमावेकत उन्नतौ स्तनौ गुरुनितम्बोऽप्ययमन्यतः स्थितः । कथं भजे कान्तिमितीव चिन्तया ततान तन्मध्यमतीव तानवम् ॥ ४४ ॥
१. महान्-अदीनः; महा नदी-इनः. २. अष्टसिद्धिरहितः; (पक्षे) न नष्टा सिद्धिर्यस्य स:. ३. चन्द्रोऽपि. ४. रात्रीणाम्; (पक्षे) अरीणां शत्रूणां विभौ स्वामिनि. ५. लोमरहितत्वम्; वैपरीत्यं च.
For Private and Personal Use Only