SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्तिमुक्तावली। बाढं धनेन्धनसमागमदीप्यमाने लोमानले शलभतां लभते गुणौधः ॥ ५९ ॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ॥ ६० ॥ अथ सुजनप्रक्रमः । वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे ___ वरं झम्पापातो ज्वलदलनकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा ॥ ६१ ॥ सौजन्यमेव विदधाति यशश्चयं च स्वश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि यत्कुमते तदर्थ धान्येऽनलं क्षिपसि तजलसेकसाध्ये ॥ ६२ ॥ वरं विभववन्ध्यता सुजनभावभाजां नृणा मसाधुचरितार्जिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं विपाकविरसा न तु श्वयथुसंभवा स्थूलता ॥ ६३ ॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लमयत्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ ६४ ॥ अथ गुणिसङ्गप्रक्रमः । धर्म ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमा काव्यं निष्प्रतिभस्तपः शमदमैः शून्योऽल्पमेधः श्रुतं । १ 'शमदयाशून्यो' क. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy