________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
जात्यादिमानविषजं विषमं विकार तं मार्दवामृतरसेन नयस्व शान्तिम् ॥ १२ ॥
अथ मायाप्रक्रमः। कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां
कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्यशोराजधानी
व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ ५३ ।। विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति ।
ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ॥ १४ ॥ मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया । सोऽनर्थसाथै न पतन्तमीक्षते यथा विडालो लगुडं पयः पिबन् ॥ ५५ ॥
मुग्धप्रतारणपरायणमुज्जिहीते
यत्पाटवं कपटलम्पटचित्तवृत्तेः । जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ तत् ॥ ५६ ॥
अथ लोभप्रक्रमः । यदुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं __गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघदृदुःसंचरं
सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ १७ ॥ मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः
क्रोधानेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्रीडासद्मकलेविवेकशशिनः स्वर्भानुरापन्नदीसिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ १८ ॥ निःशेषधर्मवनदाहविजृम्भमाणे
दुःखौघभस्मनि विसर्पदकीर्तिधूमे ।
For Private and Personal Use Only