SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ सर्गः ] धर्मशर्माभ्युदयम् । प्रत्यर्थिनाशपिशुनः परिपूर्णमूर्तेरिन्दोरुदारपरिवेष इवावभाति ॥ ८६ ॥ इति महाकविश्रीहरिचन्द्र विरचिते धर्मशर्माभ्युदये महाकाव्ये प्रथमः सर्गः । Acharya Shri Kailassagarsuri Gyanmandir द्विती: सर्गः । अभूदथेक्ष्वाकुविशालवंशभूः स तत्र मुक्तामयविग्रहः पुरे | नृपो महासेन इति स्वमेव यः कुलं द्विषन्मूर्धमदोऽप्यभूषयत् ॥ १ ॥ गतेऽपि दृग्गोचरमत्र शत्रवः स्त्रियोऽपि कंदर्पमपत्रपा दधुः । किमद्भुतं तद्वतपञ्चसायके यदद्रवन्संगैरसंगताः क्षणात् ॥ २ ॥ न केवलं दिग्विजये चलच्चमूभरभ्रमद्भुवलयेऽस्य जङ्गमैः । श्रिताहितत्राणकलङ्कशङ्कितैरिव स्थिरैरप्युदकम्पि भूधरैः ॥ ३ ॥ तदङ्गरूपामृतमक्षिभाजनैर्यदृच्छया सेचनकं पपुः स्त्रियः । प्रमातुमन्तस्तदपारयन्मनाम्बुदश्रुदम्भान्निरगादिवाङ्गतः ॥ ४ ॥ कुलेऽपि किं तात तवेदृशी स्थितिर्यदात्मजा श्रीर्न सभावपि त्यजेत् । तदङ्गलीलामिति कीर्तिरीयया ययावुपालब्धुमिवास्य वारिधिम् ॥ ५ ॥ तदा तदुत्तुङ्गतुरंगमक्रमप्रहारमज्जन्मणिशङ्कुसंहताम् । न भूरिबाधाविधुरोऽप्यपोहितुं प्रगल्भतेऽद्यापि महीमहीश्वरः ॥ ६ ॥ विभान्त्यमी शत्रुनिमज्जनोत्थितास्तदादि तस्यासिजलस्य बिन्दवः । न तारका योनि कुतोऽन्यथा भवेज्झपः कुलीरो मकरच तास्वपि ॥ ७ ॥ वितीर्णमस्मभ्यमनेन संयुगे पुनः कुतो लब्धमितीव कौतुकात् । स कस्य ष्टष्ठं न नतारिभुभुजः कराग्रसंस्पर्शमिषाइयलोकयत् ॥ ८ ॥ न मन्त्रिणस्तन्त्रजुपोऽपि रक्षितुं क्षमाः स्वमेतजगादसेः क्वचित् । इतीव भीताः शिरसि द्विपो दधुस्तदङ्घ्रिचञ्चनखरत्नमण्डलम् ॥ ९ ॥ १. शत्रवः कं दर्पमभिमानम्. पत्रं वाहनं पान्तीति पत्रपाः, न पत्रपाः अपत्रपाः वाहनरहिता इत्यर्थः स्त्रियश्चापगतत्रपाः सत्यः कंदर्प कामं दधुः २ सङ्गरसं गताः; संगर-संगताः. ३. ‘तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनातू'. ४. सर्पात्. भुजं प्राप्तात्; (पक्षे ) For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy