________________
Shri Mahavir Jain Aradhana Kendra
१६२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
तिलकं तीर्थकृलक्ष्म्यास्तस्य प्राह पुरो भ्रमत् । धर्मचक्रं जगच्चक्रे चक्रवर्तित्वमक्षतम् ॥ १७१ ॥ विश्वप्रकाशकस्यास्य तेजोभिर्व्यर्थतां गतः । सेवार्थ संचाराये धर्मचक्रच्छाद्रविः ॥ १७२ ॥ यत्रातिशयसंपन्नो विजहार जिनेश्वरः । तत्र रोगग्रहातङ्गशोकशङ्कापि दुर्लभा ॥ १७३ ॥ निष्कलामा बभूवुस्ते विपक्षा इव सज्जनाः । प्रजा इव भुवोऽप्यासन्निष्कण्टकपरिग्रहाः || १७४ ॥ के विपक्षा वराकास्ते प्रातिकूल्यविधी प्रभोः । महावलोsपि यद्वायुः प्राप तस्यानुकूलताम् ॥ १७९ ॥ हेमरम्यं वपुः पञ्चचत्वारिंशद्धनुर्मितम् । विभ्रदेवैः श्रितो रेजे स्वर्णशैल इवापरः ॥ १७६ ॥ द्वाचत्वारिंशदेतस्य सभायां गणिनोऽभवन् ।
नवैव तीक्ष्णत्रुद्धीनां शतानि पूर्वधारिणाम् || १७७ ॥ शिक्षकाणां सहस्राणि चत्वारि सप्तभिः शतैः । सह षड्डिः शतैस्त्रीणि सहस्त्राण्यधिबोधिनाम् ॥ १७८॥ केवलज्ञानिनां पञ्चचत्वारिंशच्छतानि च । मन:पर्ययनेत्राणां तावन्ति क्षपितांहसाम् ॥ १७९॥ सप्तैव च सहस्राणि विक्रयर्द्धिमुपेयुषाम् । शतैरष्टाभिराष्टेि द्वे सहस्त्रे च वादिनाम् ॥ १८० ॥ अर्जिकाणां सहस्राणि षट्चतुर्भिः शतैः सह । श्रावकाणां च लक्षे हे शुद्धसम्यक्त्वशालिनाम् ॥ १८९ ॥ श्राविकाणां तु चत्वारि लक्षाणि क्षपितैनसाम् । निर्जराणां तिरश्रां च संख्याप्यत्र न बुध्यते ॥ १८२ ॥ इत्याश्वास्य चतुर्विधेन महता संघेन संभूषितः सैन्येनेव विपक्षवादिवदनाकृष्टामशेषां महीम् ।
For Private and Personal Use Only