________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ सर्गः] धर्मशर्माभ्युदयम् । दृप्यन्मोहचमूं विजित्य विजयस्तम्भायमानं तदा
सम्मेदाचलमाससाद विजयश्रीधर्मनाथः प्रभुः ॥ १८३ ॥ तत्रासाद्य सितांशुभोगसुभगां चैत्रे चतुर्थी तिथि
यामिन्यां स नवोत्तरैर्यमवतां साकं शतैरष्टभिः । सार्धद्वादशवर्षलक्षपरमारम्यायुषः प्रक्षये ध्यानध्वस्तसमस्तकर्मनिगलो जातस्तदानी क्षणात् ॥ १८४ ।। अभजदथ विचित्रैर्वाक्प्रसूनोपचारैः
प्रभुरिह हरिचन्द्राराधितो मोक्षलक्ष्मीम् । तदनु तदनुयायी प्राप्तपर्यन्तपूजो
पचितसुकृतराशिः स्वं पदं नाकिलोकः ॥ १८५ ।। इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये एकविंशः सर्गः।
.
श्रीमानमेयमहिमास्ति स नोमकानां
वंशः समस्तजगतीवलयावतंसः । हस्तावलम्बनमवाप्य यमुल्लसन्ती
द्वापि न स्खलति दुर्गपथेषु लक्ष्मीः ॥ १ ॥ मुक्ताफलस्थितिरलंकृतिषु प्रसिद्ध
स्तत्रादेव इति निर्मलमूर्तिरासीत् । कायस्थ एव निरवद्यगुणग्रहः स
न्नेकोऽपि यः कुलमशेषमलंचकार ॥ २ ॥ लावण्याम्बुनिधिः कलाकुलगृहं सौभाग्यसद्भाग्ययोः ।
क्रीडावेश्म विलासवासवलभी भूषास्पदं संपदाम् । शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः
शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ ३ ॥ अर्हत्पदाम्भोरुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वते स्रोतास यस्य वाचः ॥ ४ ॥
For Private and Personal Use Only