________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
काव्यमाला ।
अङ्गारशकटारामभाटकास्फोटजीवनम् । तिलतोयेक्षुयन्त्राणां रोपणं दावदीपनम् ॥ १४५ ॥ दन्तकेशनखास्थित्वग्रोम्णां निन्द्यरसस्य च । शणलाङ्गललाक्षायःवेडादीनां च विक्रयः ॥ १४६ ॥ वापीकूपतडागादिशोषणं कर्षणं भुवः । निर्लाञ्छनं भक्षरोधः पशूनामतिमारणम् ॥ १४७ ॥ वनकेलिर्जलक्रीडा चित्रलेप्यादिकर्म वा । एवमन्येऽपि बहवोऽनर्थदण्डाः प्रकीर्तिताः ॥ १४८ ॥ सामाजिकमथाद्यं स्याच्छिक्षाव्रतमगारिणाम् । आतरौद्रे परित्यज्य त्रिकालं जिनवन्दनात् ॥ १४९ ॥ निवृत्तिर्भुक्तभोगानां या स्यात्पर्वचतुष्टये । पोषधाख्यं द्वितीयं तच्छिक्षाव्रतमितीरितम् ॥ १५० ॥ भोगोपभोगसंख्यानं क्रियते यदलोलुपैः ।। तृतीयं तत्तदाख्यं स्याहुःखदावानलोदकम् ॥ १५१ ॥ गृहागताय यत्काले शुद्धं दानं यतात्मने । अन्ते सल्लेखना वान्यतच्चतुर्थं प्रकीर्त्यते ॥ १५२ ।। व्रतानि द्वादशैतानि सम्यग्दृष्टिबिभर्ति यः । जानुदनीकतागाधभवाम्भोधिः स जायते ॥ १५३ ॥ यथागममिति प्रोक्तं व्रतं देशयतात्मनाम् । अनागारमतः किंचिद्रूमस्त्रैलोक्यमण्डनम् ॥ १५४ ॥ अनागारं व्रतं वेधा बाह्याभ्यन्तरभेदतः । षोढा बाह्यं जिनैः प्रोक्तं तावत्संख्यानमान्तरम् ॥ १५५ ॥ वृत्तिसंख्यानमौदर्यमुपवासो रसोड्मनम् (१) । रहःस्थितितनुक्लेशौ पोढा बाह्यमिति व्रतम् ॥ १५६ ॥ स्वाध्यायो विनयो ध्यानं व्युत्सर्गों व्यातिस्तथा । प्रायश्चित्तमिति प्रोक्तं तपः पड्डिधमान्तरम् ॥ १५७ ।।
For Private and Personal Use Only