________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१ सर्गः]
धर्मशर्माभ्युदयम् ।
सकपायतया दत्ते जीवोऽसंख्य प्रदेशगान् । पुद्गलान्कर्मणो योग्यान्बन्धः स इह कथ्यते ॥ १०६ ॥ मिथ्यादृक्च प्रमादाश्र योगाश्राविरतिस्तथा । कषायाच स्मृता जन्तोः पञ्च चन्धस्य हेतवः ॥ १०७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृतिस्थित्यनुभागप्रदेशानां विभेदतः । चतुर्विधः प्रणीतोऽसौ जैनागमविचक्षणैः ॥ १०८ ॥ अष्टौ प्रकृतयः प्रोक्ता ज्ञानावृतिगावृती | वेद्यं च मोहनीयायुर्नामगोत्रान्तराययुक् ॥ १०९ ॥ तदाः पञ्च नव द्वावष्टाविंशतिरप्यतः । चत्वारो द्विचत्वारिंशही पचापि स्मृताः क्रमात् ॥ ११० ॥ आदितस्तिसृणां प्राज्ञैरन्तरायस्य च स्मृताः । सागरोपमकोटीनां त्रिंशत्कोटयः परा स्थितिः ॥ १११ ॥ सप्ततिमहनीयस्य विंशतिर्नामगोत्रयोः ।
आयुषस्तु त्रयस्त्रिंशद्विज्ञेयाः सागरोपमाः ॥ ११२ ॥ अवरावेदनीयस्य मुहूर्ता द्वादश स्थितिः । नाम्नो गोत्रस्य चाष्टौ स्याच्छेपास्त्वन्तर्मुहूर्तकम् ॥ ११३ ॥ भाव्यक्षेत्रादिसापेक्षो विपाकः कोऽपि कर्मणाम् ।
For Private and Personal Use Only
११७
अनुभागो जिनैरुक्तः केवलज्ञानभानुभिः ॥ ११४ ॥ ये सर्वात्मप्रदेशेषु सर्वतो बन्धभेदतः । प्रदेशाः कर्मणोऽनन्ताः स प्रदेशः स्मृतो बुधैः ॥ ११५ ॥ इत्येष बन्धतत्त्वस्य चतुर्धा वर्णितः क्रमः । पदैः संहियते कैश्रित्संवरस्यापि डम्बरः ॥ ११६ ॥ आश्रवाणामशेषाणां निरोधः संवरः स्मृतः ।
कर्म संवियते येनेत्यन्वयस्यावलोकनात् ॥ ११७ ॥ आश्रवद्वाररोधेन शुभाशुभविशेषतः ।
कर्म संवियते येन संवरः स निगद्यते ॥ ११८ ॥ (इति पाठान्तरम् )