________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
काव्यमाला।
यथागममजीवस्य कृता रूपनिरूपणा । इदानीमाश्रवस्यापि कोषमुन्मुद्रयाम्यहम् ॥ ९३ ॥ शरीरवाङ्मनःकर्मयोग एवाश्रयो मतः । शुभाशुभविकल्पोऽसौ पुण्यपापानुषङ्गतः ॥ ९४ ॥ गुरुनिह्नवदोषोक्तिमात्सर्यासादनादयः । आश्रयत्वेन विज्ञेया दृग्ज्ञानात्तिकर्मणोः ॥ ९५ ॥ दुःखशोकभयाक्रन्दसंतापपरिदेवनैः । जीवो बनात्यसवेद्यं स्वपराभयसंश्रयैः ॥ ९६ ॥ क्षान्तिक्षौचदयादानसरागसंयमादयः । भवन्ति हेतवः सम्यगसद्वेद्यस्य कर्मणः ॥ ९७ ॥ केवलिश्रुतसंबाहद्धर्माणामविवेकतः । अवर्णवाद एवाद्यो दृष्टिमोहस्य संभवः ॥ ९८ ॥ कषायोदयतस्तीव्रपरिणामो मनस्विनाम् । चारित्रमोहनीयस्य कर्मणः कारणं परम् ॥ ९९ ॥ श्वभ्रायुपो निमित्तानि बह्वारम्भपरिग्रहाः । मायार्तध्यानतामूलं तिर्यग्योनिभवायुपः ॥ १०० ॥ नरायुषोऽपि हेतुः स्यादल्पारम्भपरिग्रहः । सरागसंयमत्वादिनिदानं त्रिदशायुपः ॥ १०१ ॥ स्याद्विसंवादनं योगवक्रता च निरत्यया । हेतुरशुभस्य नामस्तदन्यस्य तदन्यथा ॥ १०२ ।। षोडशदग्विशुद्ध्याद्यास्तीर्थकन्नामकर्मणः । स्वप्रशंसायनिन्दाद्या नीचैर्गोत्रस्य हेतवः ॥ १०३ ॥ विपरीताः पुनस्ते स्युरुच्चैगात्रस्य साधकाः । अन्तरायः सदानादिर्विघ्ननिवर्तनोदयः ॥ १०४ ।। रहस्यमिति निर्दिष्ट किमप्याश्रवगोचरम् । बन्धतत्त्वप्रबोधोऽयमधुना विधिनोच्यते ॥ १०५ ॥
For Private and Personal Use Only