________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ सर्गः] धर्मशर्माभ्युदयम् । .
१५५ इति व्यावर्णितो जीवश्चतुर्गत्यादिभेदतः। संप्रत्यजीवतत्त्वस्य किंचिद्रूपं निरूप्यते ॥ ८० ॥ धर्माधर्मी नभः कालः पुद्गलश्चेति पञ्चधा।। अजीवः कथ्यते सम्यग्जिनस्तत्त्वार्थदर्शिभिः ।। ८१ ॥ घद्रव्याणीति वर्ण्यन्ते समं जीवेन तान्यपि । विना कालेन तान्येव यान्ति पञ्चास्तिकायताम् ॥ ८२॥ धर्मः स तात्विकैरुक्तो यो भवेद्गतिकारणम् । जीवादीनां पदार्थानां मत्स्यानामुदकं यथा ॥ ८३ ॥ छायेव धर्मतप्तानामश्वादीनामिव क्षितिः । द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् ॥ ८४ ॥ लोकाकाशमभिव्याप्य स्थितावेतावनिष्क्रियौ। नित्यावप्रेरको हेतू मूर्तिहीनावुभावपि ॥ ८५ ॥ पुद्गलादिपदार्थानामवगाहैकलक्षणः । लोकाकाशः स्मृतो व्यापी शुद्धाकाशो बहिस्ततः ॥ ८६ ॥ धर्माधर्मकजीवाः स्युरसंख्येयप्रदेशकाः । व्योमानन्तप्रदेशं तु सर्वज्ञैः प्रतिपाद्यते ॥ १७ ॥ जीवादीनां पदार्थानां परिणामोपयोगतः । वर्तनालक्षणः कालोऽनंशो नित्यश्च निश्चयात् ॥ ८८ ॥ कालो दिनकरादीनामुदयास्तत्क्रियात्मकः । औपचारिक एवासौ मुख्यकालस्य सूचकः ॥ ९ ॥ रूपगन्धरसस्पर्शशब्दवन्तश्च पुद्गलाः । द्विधा स्कन्धाणुभेदेन त्रैलोक्यारम्भहेतवः ॥ ९० ॥ भूमितैलतमोगन्धकर्माणुप्रकृतिः क्रमात् । स्थूलास्थूलादिभेदाः स्युस्तेषां पोढा जिनागमे ॥ ९१ ।। भाषाहारशरीराख्यप्राणापानादिमूर्तिमत् । यत्किचिदस्ति तत्सर्वं स्थूलं सूक्ष्मं च पुद्गलम् ॥ ९२ ॥
For Private and Personal Use Only