________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
काव्यमाला। सौधर्मेशाननामानौ धर्मारम्भमहोद्यमौ । सनत्कुमारमाहेन्द्रौ ब्रह्मब्रह्मोत्तरावपि ॥ ६७ ॥ ततो लान्तवकापिष्ठौ शुक्रशुक्रोत्तरौ परौ । शताराख्यसहस्रारावानतप्राणतावपि ॥ ६८ ॥ अथारणाच्युतौ कल्पाः षोडशेति प्रकीर्तिताः । इदानीं तेषु देवानामायुर्मानं च कथ्यते ॥ ६९॥ हस्ताः सप्त द्वयोर्मानं पडूज़ नाकिषु द्वयोः । चर्तुणा पञ्च चत्वारस्तदूर्ध्व तावतां क्रमात् ॥ ७० ॥ त्रयः सार्धा द्वयोरूवमूर्ध्वमाभ्यां द्वयोस्त्रयः । इति षोडशकल्पानामूर्ध्व वेयकेष्वपि ॥ ७१ ॥ अधःस्थेषु करौ साधों द्वौ मध्येपूर्ध्वगेषु च । त्रिषु सार्धकरास्तेभ्यः परे हस्तप्रमाः सुराः ॥ ७२ ॥ सौधर्मेशानयोरायुःस्थितिौं सागरौ मतौ।। सनत्कुमारमाहेन्द्रकल्पयोः सप्तसागराः ॥ ७३ ॥ दशैव कल्पयो या ब्रह्मब्रह्मोत्तराख्ययोः। निर्णीता लान्तवे कल्पे कापिष्ठे च चतुर्दश ॥ ७४ ॥ षोडशैव ततः शुक्रमहाशुक्राभिधानयोः । अष्टादश शतारे च सहस्त्रारे च निश्चिताः ॥ ७५ ॥ वर्णिता विंशतिनमानतप्राणताख्ययोः । उक्ता द्वाविंशतिः प्राज्ञैरारणाच्युतयोरपि ॥ ७६ ॥ सर्वार्थसिद्धिपर्यन्तेष्वतो अवेयकादिषु । एकैको वर्धते तावद्यावत्रिंशत्रयाधिका ।। ७७ ॥ अकामनिर्जराबालतपःसंपत्कयोगतः । अत्रौपपादिका भूत्वा प्रपद्यन्ते सुराः सुखम् ॥ ७८ ॥ विलासोल्लाससर्वस्वं रतिकोपसमुच्चयम् । शृङ्गाररससाम्राज्यं भुञ्जते ते निरन्तरम् ॥ ७९ ॥
For Private and Personal Use Only