________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ सर्गः
धर्मशर्माभ्युदयम् । . उना सहलैरब्दानां द्वाचत्वारिंशता ततः । चतुर्थ्यम्भोधिकोटीनां कोटिरेका प्रकीर्तिता ॥ १४ ॥ पञ्चमी वत्सराणां स्यात्सहस्राण्येकविंशतिः । तत्प्रमाणैव तत्त्वज्ञैनूनं षष्ठी प्रतिष्ठिता ॥ ५५ ॥ पोढा षट्कर्मभेदेन ते गुणस्थानभेदतः । स्युश्चतुर्दश धात्रीर्या म्लेच्छाः पञ्च प्रकीर्तिताः ॥ १६ ॥ स्वभावमार्दवत्वेन स्वल्पारम्भपरिग्रहाः । भवन्त्यत्र नराः पुण्यपापाप्तिप्रक्षयक्रमाः ॥ १७ ॥ नारीगर्भेऽतिबीभत्से कफामासृङ्मलाविले । कुम्भीपाकाधिकासाते(?) जायते कृमिवन्नरः ॥ ५८ ॥ वर्णितेति गतिर्नृणां देवानामपि संप्रति । कियत्यपि स्मरानन्दोजीविनी वर्णयिप्यते ॥ ५९॥ भावनव्यन्तरज्योतिर्वैमानिकविभेदतः । देवाश्चतुर्विधास्तेपु भावना दशधोदिताः ॥ ६ ॥ असुराहिसुपर्णाग्निविद्युद्वातकुमारकाः । दिग्द्वीपस्तनिताम्भोधिकुमाराचेति भेदतः ॥ ६१ ॥ तत्रासुरकुमाराणामुत्सेधः पञ्चविंशतिः । चापानि दश शेषाणामप्युदन्वत्परायुषाम् ॥ ६२ ॥ दशसप्तधनुर्माना व्यन्तराः किंनरादयाः । शिष्टास्तेऽष्टविधा येपामायुः पल्योपमं परम् ॥ ६३ ॥ ज्योतिष्काः पञ्चधा प्रोक्ताः सूर्यचन्द्रादिभेदतः । येषामायुःप्रमाणं च व्यन्तराणामिवाधिकम् ॥ ६४ ॥ वर्षाणामयुतं भौमभावनानामिहावमम् । पल्यस्यैवाष्टमो भागो ज्योतिपामायुरीरितम् ॥ ६५ ॥ वैमानिका द्विधा कल्पसंभतातीतभेदतः । कल्पजास्तेऽच्युतादाक्कल्पातीतास्ततः परे ॥ ६६ ॥
For Private and Personal Use Only