________________
Shri Mahavir Jain Aradhana Kendra
१५०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
चतुर्थी दशभिर्युक्ता पञ्चमी त्रिभिरुल्बणैः ।
षष्ठी पञ्चोनलक्षेण सप्तमी पञ्चभिर्बिलैः ॥ १५ ॥ एवं नरकलक्षाणामशीतिश्चतुरुत्तरा ।
विज्ञेया तासु दुःखानां न संख्या निपुणैरपि ॥ १६ ॥ पङ्गलास्त्रयो हस्ताः सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया प्राणिनां प्रथमक्षितौ ॥ १७ ॥ द्वितीयादिष्वतोऽन्यासु द्विगुणद्विगुणोदयः । उत्सेधः स्याद्धरित्रीषु यावत्पञ्चवनुःशती ॥ १८ ॥ प्रसरद्दुःखसंतानमन्तर्मातुमिवाक्षमम् । वर्धयत्यङ्गमेतेषामधोऽधो धरणीश्वतः ॥ १९ ॥ एक आद्ये द्वितीये च त्रयः सप्त तृतीयके । चतुर्थे पञ्चमे च स्युर्दश सप्तदश क्रमात् ॥ २० ॥ षष्ठे द्वाविंशतिज्ञेया त्रयस्त्रिंशच्च सप्तमे । आयुर्दुःखापवरके नरके सागरोपमाः ॥ २१ ॥ आद्ये वर्षसहस्राणि दशायुरधमं ततः । पूर्वस्मिन्यद्यदुत्कृष्टं निकृष्टं तत्तदग्रिमे ॥ २२ ॥ कदाचिदपि नैतेषां विधिरेधयतीहितम् । दुःखिनामनभिप्रेतमिवायुर्वर्धयत्यसौ ॥ २३ ॥ रौद्रध्यानानुबन्धेन बारम्भपरिग्रहाः । तत्रौपपादिका जीवा जायन्ते दुःखखानयः ॥ २४ ॥ तेषामालिङ्गिताङ्गानां संततं दुःखसंपदा । न कदापि कृतेयैव सुखश्रीर्मुखनीक्षते ॥ २५ ॥ साश्रुणी लोचने वाणी गद्गदा विह्वलं मनः । स्यात्तदेषां कथं दुःखं वर्णयन्ति दयालवः ॥ २६ ॥ सूतवद्भिन्नमप्यङ्गं यन्मिलत्यापदे पुनः । दुःखाकरोति मच्चित्तं तेन वार्तापि तादृशाम् ॥ २७ ॥
१. पारदवत्.
For Private and Personal Use Only