________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ सर्ग:]
धर्मशर्माभ्युदयम् । । ततो भूतभवद्भाविपदार्थव्यक्तिसाक्षिणी । निःशेषदोषनिर्मुक्ता त्यक्तमिथ्यापथस्थितिः ॥ २ ॥ विपक्षगर्वसर्वस्वदूरोच्चाटनडिण्डिमः । अपारपापसंभारभूधरोपद्रवाशनिः ॥ ३ ॥ स्याद्वादवादसाम्राज्यप्रतिष्ठाप्रसवश्रुतिः।। अतुल्यधर्ममल्लोरुकरास्फोटस्फुटाकृतिः ॥ ४ ॥ भ्रूविभ्रमकरन्यासश्वासौष्ठस्पन्दवर्जिता । वर्णविन्यासशून्यापि वस्तुबोधविधायिनी ॥ ५ ॥ पृथक्पृथगभिप्रायवचसामपि देहिनाम् । तुल्यमेकाप्यनेकेषां स्पष्टमिष्टार्थसाधिका ॥ ६ ॥ सर्वाद्भुतमयी सृष्टिः सुधाष्टिश्च कर्णयोः । प्रावर्तत ततो वाणी सर्वविद्येश्वराद्विभोः ॥ ७ ॥ (कुलकम) जीवाजीवाश्रवा बन्धसंवरावपि निर्जराः । मोक्षश्चेतीह तत्त्वानि सप्त स्युर्जिनशासने ॥ ८ ॥ बन्धान्त विनोः पुण्यपापयोः पृथगुक्तितः । पदार्था नव जायन्ते तान्येव भुवनत्रये ॥ ९ ॥ अमूर्तश्चेतनाचिह्नः कर्ता भोक्तातनुप्रभः । उर्ध्वगामी स्मृतो जीवः स्थित्युत्पत्तिव्ययात्मकः ॥ १० ॥ सिद्धसंसारिभेदेन द्विप्रकारः स कीर्तितः । नरकादिगतेभैंदात्संसारी स्याच्चतुर्विधः ॥ ११ ॥ नारकः सप्तधा सप्तप्टथ्वीभेदेन भिद्यते । अधिकाधिकसंक्लेशप्रमाणायुर्विशेषतः ॥ १२ ॥ रत्नशर्करावालुकापङ्कधूमतमःप्रभाः । महातमः प्रभा चेति सप्तैताः श्वभ्रभूमयः ॥ १३ ॥ तत्राद्या त्रिंशता लबिलानामतिभीषणा । द्वितीया पञ्चविंशत्या तृतीया च तिथिप्रमैः ॥ १४ ॥
For Private and Personal Use Only