________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ सर्गः]
धर्मशर्माभ्युदयम् । तदक्षिणं भारतमस्ति तस्य क्षेत्रं जिनेन्द्रागमवारिसेकात् । स्वर्गादिसंपत्फलशालि यत्र निष्पद्यते पुण्यविशेषसस्यम् ॥ ४.१ ॥ यत्सिन्धुगङ्गान्तरवर्तिनाच्चैः शैलेन भिन्नं विजयानाम्रा । भारेण लक्ष्म्या इव दुर्वहेन वमूव घट्खण्डमखण्डशोभम् ॥ ४२ ॥ तत्रार्यखण्डं त्रिदिवात्कथंचिच्च्युतं निरालम्बतयेव खण्डम् । . ललामवन्मण्डयति स्वकान्त्या देशो महांनुत्तरकोशलाख्यः ॥ ४३ ॥ अनेकपद्माप्सरसः समन्ताद्यस्मिन्नसंख्यातहिरण्यगर्भाः । अनन्तपीताम्बरधामरम्या ग्रामा जयन्ति त्रिदिवप्रदेशान् ॥ १४ ॥ यन्त्रप्रणालीचपकैरजलमापीय पुण्ड्रेक्षुरसासवौघम् । मन्दानिलान्दोलितशालिपूर्णा विघूर्णते यत्र मदादिवोर्वी ॥ ४५ ॥ विस्तार्य तारा रभसान्निशि द्यौः पुनः पुनर्यदिवसे प्रमाष्टि । उत्पुण्डरीकैः किल यत्सरोभिः खं लब्धसाम्यं तदमन्यमाना ॥ ४६॥ उत्पालिकाभ्रूस्तिमितैस्तडागचक्षुःसहस्तैरिव विस्मयेन । यद्वैभवं भूरपि वीक्ष्य धत्ते रोमाञ्चमुद्यत्कलमच्छलेन ॥ ४७ ॥ जनैः प्रतिग्रामसमीपमुच्चैः कृता वेषाढ्यैर्वरधान्यकुटाः । यत्रोदयास्ताचलमध्यगस्य विश्रामशैला इव भान्ति भानोः ॥ ४८ ॥ नीरान्तरात्तप्रतिमावतारास्तरङ्गिणीनां तरवस्तटेषु । विभान्ति यत्रोर्ध्वगतार्कतापात्कृतप्रयत्ना इव मज्जनाय ॥ ४९ ॥ सस्यस्थलीपालकबालिकानामुल्लोलगीतश्रुतिनिश्चलाङ्गम् । यत्रैणयूथं पथि पान्थसार्थाः सल्लेप्यलीलामयमामनन्ति ॥ ५० ॥ आस्कन्धमृज्वी तदनल्पपत्रप्रसूनशाखावलया हमाली। मयूरपत्रग्रथितातपत्रश्रीर्यस्य देशाधिपतित्वमाह ॥ ५१ ॥ १. अनेकानि पद्मयुक्तानि जलतडागानि येषु. स्वर्गे च पद्मा लक्ष्मीः, अप्सरसो रम्भाद्याः. २. असंख्यातं हिरण्यं सुवर्ण गर्भे येषाम्. हिरण्यगर्भश्च ब्रह्मा. ३. पीतमम्बरं यैस्तादृशैर्धामभी रम्या:. असंख्यैरभ्रंकषप्रासादैः शोभमाना इत्यर्थः. स्वर्गे च पीताम्बरस्य विष्णोर्धाम. ४. तडागस्य समन्ताज्जलबन्धनार्थ निर्मितो मृत्कूटः, ५. वृषो धर्मस्तयुक्ताः पुरुषा मार्गमध्ये पान्थविश्रमार्थ स्थलानि कुर्वन्ति..
For Private and Personal Use Only