________________
Shri Mahavir Jain Aradhana Kendra
१९ सर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्मशर्माभ्युदयम् |
रैरोऽरीरोरुररुरत्काकुकं केकिकङ्किकः । चचच्चञ्चच्चचिच्चोचे तततातीति तं ततः ॥ ३३ ॥ (चतुरक्षरः)
१३३
अन्तरत्यन्तनिर्गुढपदाभिप्रायभीषणा ।
वाग्भुजङ्गीव ते मृही कस्य विश्वासकृद्बहिः ॥ ३४ ॥ दुर्जनः सत्सभां प्रष्टामीहते न स्वभावतः । किमुलूकस्तमोहन्त्री भास्वतः सहते प्रभाम् ॥ ३५॥ (गूढचतुर्थपादः)
सीमा सौभाग्यभाग्यानां शोभासंभावित स्मरः । अहो धाष्टर्च जगन्नाथः कार्मणीत्युच्यते खलैः ॥ ३६ ॥ प्रभाप्रभाव भाग्येन भाग्येन स वधूकरम् ।
तेने तेनेऽपतन्माला तन्मालापं वृथा कृथाः ॥ ३७ ॥ गुणदोषानविज्ञाय भर्तुर्भक्ताधिका जनाः । स्तुतिमुच्चावचामुञ्चैः कां न कां रचयन्त्यमी ॥ ३८ ॥ धर्म बुद्धिं परित्यक्त्वापरत्राने पापदे । सदयः कुरुते करतां परत्राने पापदे || ३९ ॥ आस्तां जगन्मणेस्तावद्वानोरन्यैर्महस्विभिः । अनुरोरपि किं तेजः संभूय परिभूयते ॥ ४० ॥ मम चापलतां वीक्ष्य नवचापलतां दधत् । अयमाजरसाद्गन्तुं किं यमाजरमिच्छति ॥ ४१ ॥ सौजन्यसेतुमुद्भिन्दन्यत्त्वया नैव वारितः ।
तन्नः क्रोधार्णवौचेन प्लावनीयो नृपब्रजः ॥ ४२ ॥
For Private and Personal Use Only
१. रायं धनं ददातीति : अरीन् ईरयन्तीत्यरीराः सुभटाः तेषां ऊरुर्महान्. केकिना कङ्कते इत्येवंशीलः केकिकङ्की कार्तिकेयः, तस्यैव कः कामो यस्य स के किकङ्किकः चञ्चन्ती चर्दक्षा उच्च महती चिद्बुद्धिर्यस्य ततां प्रचुरां तां लक्ष्मीमतति गच्छति इत्येवंशीलस्ततताती. काकुकं मर्मव्यथकशब्दम्. २. अधर्मे. ३. परेम्यस्त्रायन्ते ते अनेकपा हस्तिनस्तेषामापदे.