________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
काव्यमाला।
बहुशस्त्रासमाप्यैषां बहुशस्त्रासमाहतेः । को वा न रमते प्राप्ताङ्को वानरमते गिरौ ॥ २३ ॥ कि, दासतया स्थातुमीहसे क्वापि भूभृति । असंख्यं कर्म तत्कुल्लप्स्यसे कम्बलोत्सवम् ॥ २४ ॥ बहुधामरणेऽच्छाबहुधा मरणेच्छया । पंरभीरहितं पश्येत्परभीरहितं परम् ॥ २५ ॥ बन्धाय वाहिनीशस्य तवैते मेदिनीभृतः । आयान्ति कटकैर्जुष्टाः सनागहरिखङ्गिभिः ।। २६ ॥ मुरलो मुरलोपीव कुन्तलः कुन्तलश्च कैः ।। मालवो मॉलवोद्रीवैर्वार्यते वार्य ते रणे ॥ २७ ॥ उद्दामद्विरदेनाद्यो (?) कलिङ्गेन वृषध्वजः । शिरोर्पितार्धचन्द्रेण कार्यस्त्वमगजाश्रितः ॥ २८ ।। अनेकपापरक्तो वा लभ सेनाशमं गतः । अनेकपापरक्तो वा लभसे नाशमङ्गतः ॥ २९ ॥ हितहेतु वचस्तुभ्यमभ्यधामहमीदृशम् । विरोधिन्यपि यत्साधुन विरुद्धोपदेशकः ॥ ३० ॥ अधिकं दरमेत्याहो अधिकंदरमुन्नतान् । समासादयशाः शैलान्समासादय वा नृपान् ॥ ३१ ॥ इति राजगणे तस्मिन्नधिकोपकृतिक्षमे । गतिद्वयमुदाहृत्य प्रणिधिर्विरराम सः ॥ ३२ ॥
१. बहुशः-त्रासम्. २. बहुशस्त्र-आसभाहतेः. ३. लब्धोत्सङ्गः. ४. उदासतया; (पक्षे) दासतया. ५. राज्ञि, पर्वते च. ६. कं-बलोत्सवम्; (पक्षे) कम्बलोत्सवम्. ७. बहुधाम-रणे. ८. अच्छात्स्वच्छतेजाः. ९. पर-भी-रहितम्. १०. परभीः कातरः. ११. विष्णु रिव. १२. कुन्तलदेशनृपः. १३. कुन्तान् लातीति. १४. मा लक्ष्मीस्तस्या लवस्तेनोद्रीवः. १५. अनेकप-अपरक्तः. १६. समासातू-अयशा:.
For Private and Personal Use Only