________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९ सर्गः] धर्मशर्माभ्युदयम् ।
अस्य मानाधिकैः सेना अस्यमाना नैवाजितः । अस्यमानाहतेरेता अस्यमानावितुं क्षमः ॥ १३ ॥ परलोकभयं विभ्रत्भुभक्तिं प्रपद्यसे । भवितासि ततो नूनं स्ववंशोहरणक्षमः ॥ १४ ॥ अरमभीतियुक्तस्ताः कष्टं स्कन्दोऽपि रक्षति । अरमभीतियुक्तस्ता दूरे पास्यति वाहिनीः ।! १५ ॥ अबलां तां पुरस्कृत्य त्यक्तोऽसि सबलोऽमुना । निराश्रयस्ततो धीर राजवर्ग त्वमाश्रय ॥ १६ ॥ प्रार्थयैतांश्चतुर्वर्ग रथवाजिप्रदानतः । लप्स्यसे पञ्चतामुच्चैरैथवानिप्रदानतः ॥ १७ ॥ परमस्नेहनिष्ठास्ते परदानकृतोद्यमाः । समुन्नति तवेच्छन्ति प्रधनेन महापदाम् ॥ १८ ॥ राजानस्ते जगत्ख्याता बहुशोभनवाजिनः । वने कस्तत्क्रुधा नासीद्वहुशोभनवाजिनः ॥ १९ ॥ सहपाणां स्थितं बिभ्रतबंधामनिधनं तव । दाता वा राजसंदोहो द्राकान्तारसमाश्रयम् ॥ २० ॥ महसा सह सारेभैर्धावितांधाविता रणे । दुःसहेऽदुः सहेऽलं ये कस्य नाकस्य नार्जनम् ॥ २१ ॥ तेषां परमतोषेण संपदातिरसं गतः ।
स्वोन्नति 'पतितां विभ्रत्संगहीनो भविष्यास ॥२२॥ (युग्मम्) १. प्रमाणाधिकैः. २. क्षिप्यमाणा. ३. नवीनसङ्ग्रामात्. ४. खड्गाप्रमाणघाततः. ५. असि-अमान-अवितुं. ६. परलोको जन्मान्तरं शत्रुश्च. ७. स्वामिसेवां मर्दनतां च (१). ८. रथ-वाजि-प्रदानतः. ९. अथवा-आजि-प्रदानत:. १०. बहुशोभनवाजिनः. ११. बहुशोभ-नव-अजिनः. १२. सदयानाम् : (पक्षे) सखड्गाम्. १३. स्वधामनि स्वगृहे धनं तव दाता दास्यति; (पक्षे) स्वधाम्ना निधनम्. १४. राजसमूहः. १५. कान्ता-रसं-आश्रयम्; (पक्षे) कान्तार-समाश्रयम्. १६. गजप्रधान. १७. धाविताधौ आधिरहिते रणे इताः प्राप्ताः. १८. संपत्त्याधिकरागम् ; (पक्षे) संपदातिः सेवकः, असंगत एकाकी. १९. स्वामित्वम् : (पक्षे) च्युताम्. २०. सत्-मही-इनः समीचीनभूपाल:; (पक्षे) गृहरहितः.
For Private and Personal Use Only