________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
त्वं क्षमो भुवनस्यापि तेनेनेन प्रभास्वतः । तैवानूना चमूचक्रे तेनेऽनेन प्रभा स्वतः ॥ ५ ॥ तवानरोरिवाकाशे प्रभुभक्तिर्न बाधिका । अग्रेसरी पुनः किं न वारिराशी निमजतः ॥ ६ ॥ चतुरङ्गां चमूं त्यक्त्वा चतुरं गां गतः कथम् । प्रभयाधिकरक्षां स प्रभयाधिगतोऽवति ॥ ७ ॥ कार्मणेनैव तेनोढा सा शृङ्गारवतीति यः । साशङ्कस्तु कृतः पत्या राजवर्गः प्रणश्यता ॥ ८ ॥ नवमायोधनं शक्त्यानवमायो धनं ददत् । सेमनागबल: कर्तुं स मनागवलत्त्वया ॥ ९ ॥ (युग्मम्) लक्ष्मीजिघृक्षया तुभ्यं राजकं नापराव्यति । किं तु रीत्येव वैदा गौडीयोयाभ्यसूयितम् ॥ १० ॥ मौरसारसमाकारा राकामा सरसा म । सा गता हँसना तेन न तेनासहतींगसा ॥ ११ ॥
(प्रतिलोमानुलोमपादः) त्वामिहायुत विश्वस्तभूतलापरुतिक्षमः ।
न वापरोधिकन्नाथः केवलं भूतिहेतवे ॥ १२ ॥ १. तेन इनेन स्वामिना. २. प्रभास्वतस्तेजस्विनः. ३. तव चमचक्रे अनेन स्वत: अनूना प्रभा चक्रे. ४. नवा अधिका च; (पक्ष) बाधिः का न. ५. समुद्र; (पक्षे) वा-अरिराशौ शत्रुसमूहे. ६. प्रभया तेजमा; प्रकण भयाधिगतः. योऽकारणं चमं त्यक्त्वा प्रपलायते स भयान्वितो भवत्येव. ७. प्रत्यग्रसङ्ग्रामम्. ८, न अवम: अयः शुभावहो विधिर्यस्य. ९. तुल्यहस्तिसैन्यः. १०, मनाक्-अवलतू. ११. गोइंदशभवाय. यथा वैदभी रीतिगौडीवल्लभाय कवये कुप्यांत तथा तुभ्यं गृङ्गाग्वत्याभ्ययितम्. १२. कामसर्वस्वतुल्याकृतिः. १३. राकावन्मा लक्ष्मीर्यस्याः मा. १४. कामिनी. १५. स्मितमुखी; (पक्षे)अहसना अस्मेरास्या. चित्तानुरागविरहात्. १६.तन आगसापराधेन. १७. विश्वस्तं समस्तं यद्भूतलं तस्योपकाराय समथः; (पक्षे)-विश्वस्त-भूत-लोप कृति-क्षमः श्रद्धालुजनविनाशकः. विश्वासघातक इति यावत्. १८. न-वा-अपराधकृत्; (पक्षे) नवअपराधकृत्.
For Private and Personal Use Only