________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९ सर्गः] धर्मशर्माभ्युदयम् ।
१२९ प्रसह्य रक्षत्यपि नीतिमक्षतामभूदँनीतिः मुखभाजनं जनः । भयापहारिण्यपि तत्र सर्वतः को नाम नासीत्प्रंभयान्वितः क्षितौ ॥६४] त्रिसंध्यमागत्य पुरंदराज्ञया सुराङ्गना दर्शितभूरिविभ्रमाः । वितन्वते स्म स्मरराजशासनं सुखाय संगीतकमस्य वेश्मनि ॥६५॥
वक्राब्जेन जयश्रियं विकसता क्रोडीकृतां दर्शय___ न्हस्तोदस्तजयध्वजेन विदधद्वयक्तामथैनां पुनः । एक: प्राप सुपेणसैन्यपतिना संप्रेषितः संसदं __ तस्यानेकनृपप्रवर्तितसँमिहृत्तान्तविद्वार्तिकः ॥ ६६ ॥ प्रणतशिरसा तेनानुज्ञामवाप्य जगत्पतेः
कथयितुमुपक्रान्ते मूलादिहाजिपराक्रमे । श्रवणमयतामन्यान्यापुस्तदेकरसोदया
दपरविषयव्यावृत्तानीन्द्रियाणि सभासदाम् ॥ ६७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशाभ्युदये महाकाव्येऽष्टादशः सर्गः ।
एकोनविंशः सर्गः । आहवक्रममामूलमथ दूतः पुरः प्रभोः । आह वंक्रममामूलमिति विद्वेषिभूभुजाम् ॥ १ ॥ कार्यशेषमशेषज्ञोऽशेपयित्वा स निर्ययौ । यावत्संबन्धिनो देशात्सुपेणः सह सेनया ॥ २ ॥ तावदङ्गादयः क्षोणीभुजो दाराधियातया । वामयास्यानुजग्मुस्ते भुजोदारा धिया तया ॥ ३ ॥ (युग्मम्) अथ तैः प्रेषितो दूतः पृथ्वीनार्थयुयुत्सुभिः ।
साक्षाद्गर्व इवागत्य तमवोचच्चमपतिम् ॥ ४ ॥ १. नीतिरहितः; (पक्षे) स्वचक्रपरचक्रादि-ईतिरहितः, २. प्रकृष्टभयेन; प्रभया कान्त्या च. ३. युद्धवातीभिज्ञः. वातिको वार्ताहरी दत:. ४. अस्मिन्सर्गे आदर्शपुस्तके यमकादिषु संक्षिप्तं टिप्पणं क्वचिद्वर्तते प्रायस्तदेवात्र गृहीतम्. ५. वक्रं विषमम्, अत एव अमामूलमलक्ष्मीकाणम्. ६. दारसंबन्धी य आधिस्तेन यातया प्राप्तया धिया. ७. वामया वक्रयेति धियेत्यस्य विशेषणम्.
For Private and Personal Use Only