________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ सर्गः] धर्मशर्माभ्युदयम् ।
स्पर्शभाजि न परं करदण्डे कामिनः प्रकटकण्टकयोगः । ईषदुच्छ्रसितकोमलनाभीपङ्कजेऽपि सुदृशोऽद्भुतमासीत् ॥ ४४ ।। संचरन्नित इतो नतनाभीकूपके निपतितः प्रियपाणिः । मेखलागुणमवाप्य मदान्धोऽप्यारुरोह जघनस्थलमस्याः ॥ ४५ ॥ नीविबन्धभिदि वल्लभपाणौ सुभ्रवः कलकलो मणिकाच्याः । नोदितालिसुरतोत्सवलीलारम्भसंभ्रमपटुः पटहोऽभूत् ॥ ४६ ।। नीविबन्धमतिलङ्घय कराग्रे कामिनः प्रसरतीह यथेच्छम् । भर्त्सना स्मितमलीकतरा इत्याख्यदक्षतमनङ्गवतीनाम् ॥ ४७ ॥ पाणिना परिमृशन्नबलोरुस्तम्भमश्चितकलापगुणेन । कश्चिदाकलितमारमहेभं मोचयन्निव रतेषु रराज ॥ ४८ ।। भ्रूकपोलचिबुकाधरचक्षुश्शूचुकादिपरिचुम्बनदक्षः । कोऽपि कोषितवधूप्रतिषिद्धां सान्त्वयन्निव रतिं विरराज ॥ ४९ ।। सीत्कृतानि कलहंसकनादः पाणिकङ्कणरणत्कृतमुच्चैः । ओष्ठखण्डनमनोभवसूत्रे भाष्यतां ययुरमूनि वधूनाम् ॥ ५० ॥ गण्डमण्डलभुवि स्तनशैले नाभिगह्वरतले च विहृत्य । सश्रमा इव दृशो दयितस्यानङ्गवेश्मनि विशश्रमुरासाम् ॥ ११ ॥ नोत्पपात पतिता नवकामिन्यूरुमूलफलके खलु दृष्टिः । कामिनः प्रमदकारिणि रङ्कस्येव गूढमणिभाजि निधाने ॥ ५२ ।। पूर्वशैलमिव तुङ्गकुचाग्रं प्रेयसि श्रयति लोचनचन्द्रे । प्लावितं मनसिजार्णवनीरैः सुभ्रुवो जघनमण्डलमुच्चैः ॥ ५३ ।। प्रेडति प्रियतमे निरवद्यातोद्यवाद्यपटुकूजितकण्ठे । चित्रलास्यलयवल्गु नितम्बो वल्गति स्म सुरते वनितायाः ॥ १४ ॥
ओष्ठखण्डननखक्षतिवक्षस्ताडनस्तनकचग्रहणाद्यैः । मत्सरादिव मियो मिथुनानां कामकेलिकलहस्तुमुलोऽभूत् ॥ ५५ ॥ सोत्सवैः करणसंपरिवर्तेश्चाटुभिश्च मणितैः स्तनितैश्च । पूर्वसंस्तुतमपि च्युतलजं कामिनां रतमपूर्वमिवासीत् ॥ ५६ ॥
For Private and Personal Use Only