SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir धर्म | पाठकस्येदं वचनं श्रुत्वा विधिवत्प्रजातिकं कृत्यं विधाय मानिनाम्ना मित्रेण सह चलितो गुर्वमंजूषा तिके गतः, गत्वा वंदिता गुरवः, हृष्टमनाश्च स साधून् ददर्श कथंनुतान् ? कांश्चित्कायोत्सर्गपरान, कांश्चिड्यानबंधुरान, कांश्चित्स्वाध्यायतत्परान, कांश्चित्प्रत्युपेक्षापरान् तान् सर्वान् प्रणम्य गुरोः पुरस्तादासीनो विनयावनप्रदेदो योजित करकमलोऽसाववादीत. जो महानुभावाः ! यूयं मम सार्थे सह समागताः परं मया मंदनाग्येन शुश्रूषा न कृता, एष च ममापराधः सोढव्यः अथ गुरुराषिष्ट ३३ सार्थाधीश ! त्वयास्माकं विरूपं न कृतं, किंतु हितमेव कृतं यतः संसार व फुलैवेऽस्मिन् कांतारे दुष्टकर्मन्यश्व चौरेन्यो वयं रक्षिताः, यत्तव सार्थिका अस्माकमन्नपानादि प्रयच्छति तत्त्वयैव दत्तं धनोऽप्यूचे यूयं गुणिनः सर्वे गुणमयं मन्यध्वे अथ कल्पनीयमाहारमादाय ममानुग्रहं कुर्वे - तु ममावासे मुनीन् प्रेषयत ? ततो गुरुणा धनस्यानुग्रहकृते मुनिइंदं प्रेषितं. गृहागतं मुनिइंदं ह वात्सर्पिवासनः सर्पिषा तत्प्रत्यानयत् ततो धनेन तेन द्रव्यशुनाव शुरुदानेन बोधिवीजमवापि. धर्मलाचाशिषं दत्वा मुनयोर्निवृत्तयोर्धतो धन्यं मन्यमानः पूर्णमनोरथः सुखेनास्थात्. साधू व्यि तदन्नादिकं समादाय गुरुसन्निधौ जग्मतुः यथापरेऽह्नि परिवारपरिवृतो धनो गुर्वेति समागात्. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy