________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
घ.
मंजूपा
२११
नर्तहरो मुनिः पृथ्वीपी बोधितुमन्यत्र जगाम. इति विक्रमादित्योत्पत्तिचरित्रं.॥ एकस्मिन दिने मंत्रिसामंतमहेभ्यालीनतक्रमो विक्रमादित्यो राजा देवेंसनातव्यायां स्वसजायां यावता समुपविष्टः स्तावदेको नापितो राज्ञः पुरः समागत्य सूर्यबिंबवद्भासुरं देहप्रमाणमादर्श पुरो दधौ. विक्रमार्को महीपालस्तस्मिन्नादर्श स्वीयां निखिला देहबायां विलोकयन यावञ्चित्ते चमत्कृतोऽनुत्, तावन्नागि. तश्चमत्कृतं नृपं झात्वा तस्यां सजायां सर्वेषां मंत्रिमुख्यानां पुरो जगौ, हे राजंस्त्वयात्मीयं स्वरूपं विलोक्य यचिंतितं तदेते विझा मंत्रिणः सांप्रतं कथयंतु, नो चेदहं जमोऽप्यत्र तवाग्रे सर्व कथा यामि. तदानी नृमीभुजा पृष्टाः सर्वेऽमात्या दध्युः, सांप्रतं प्रायोऽसौ नरो वाक्सारो दृश्यते, एवं ते सर्वेऽमात्याः परस्परं ध्यात्वा राजानं जगुः हे राजन! म्लानिहेतवेऽयं महामानी पृच्म्यतां, यतःमानिनो हतदर्पस्य । सानोऽपि न सुखावहः ।। जीवितं मानमूलं हि । माने म्लाने कुतः सुखं ॥ ॥१॥ नृपेनोक्तं नो दिवाकीत त्वमेव ब्रूहि? देहप्रमाणमादर्श दृष्ट्वा किमहं चित्ते चमत्कृतः? नापितेनोक्तं राजंस्त्वया स्वरूपं दृष्ट्वा चिंतितं यन्महीमध्ये मत्तुल्यः कोऽपि मानवो नास्ति, श्यनिमानस्तव चित्ते समागतः, परं नो नृप! त्वं शृणु ? महांतो मनुजाः कदाप्येवं गर्व न कुर्वति, यतो.
For Private And Personal Use Only