________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म | त्वाचमनमादाय सन्मुखमागात. ततः कृतपुण्यको योजितकरकमलया तया वितीर्णमाचमनं गृहीगृहमध्येऽन्ये प्रियामुक्तासने उपविष्टः ततः प्रियया जोजनसामग्री कृता. कृतपुण्यकः कृतस्नानो देवर्गृहे जिनमर्चयित्वा वर्यपुष्पैः स्तोत्रेण स्तुत्वा च बुभुजे ततः कृतपुण्यस्य कांतस्य सवा ११२ ऽपि गृहवृत्तांतः प्रियया प्रोक्तः ततस्तेन चिंतितमोऽहमभाग्यशिरोमणिर्यतो मातापित्रोर्मया सुख न दत्तं तेन पुत्रेण जातेन च किं ? यो मातापित्रोः सुखं न ददाति मया तु पित्रोः कुलं विनाशितं यतः - ईक्षुक्षेत्र वंशजाली । कलीविषपादपाः । फले जाते विनश्यति । दुःपुत्रेण कुलं यथा ॥ १ ॥ पितरौ यन्मयागाधे | दिप्तो दुःखमहार्णवे ॥ धनं निधनमानीतं । पितृपर्यायसंचितं ॥ २॥ एवं स चिंतयन् प्रियया प्रोक्तः - यद्भावि तद्भवति नित्यमयत्नतोऽपि । यत्नेन वापि महता ॥ एवं विधातृवशवर्तिनि जीवलोके । किं शोच्यमस्ति पुरुषस्य विचक्षणस्य ॥ १ ॥ गते शोको न कर्तव्यो । जविष्यन्नैव चिंतयेत् ॥ वर्तमानेन कालेन । वर्तयंति विचक्षणाः ॥ २ ॥ इत्यादि प्रियावचः निशम्य स्वस्थः सन् शोकं त्यक्त्वा समाधिना कृतपुण्यो गृहेऽस्थात्. पत्न्या दत्तधनेन स किंचिद्व्यापारं करोति क्रमात्तया समं सुरतसुखमनुजवतः पत्न्याः कुदावाधानमत्. स
For Private And Personal Use Only