________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हवायुपदेशपदगाथायामिमामनुफ्पत्तिमुद्भावयति-'सर्वप्रथादानां मूले द्वादशाङ्गम् ' इत्यत्र प्रवादा नयवादविशेषास्ते च सर्वग्रहणेन शुभा अशुभाश्च साह्याः / तत्र शुभा जीवरक्षाद्यभिप्रायटिताः, अशुभाश्च ततो विलक्षणा तेषां च मूर्ल द्वादशाङ्गं श्रीबीरवचनाहोधितश्री सुधर्मस्वामिसबन्धि न भवति , अशुभानामापे प्रचादानां प्रवृतेर्जियचनमूलकत्वास्वत्या शुभानामिवोपादेयता स्यादिति / ते च प्रवादा शुभाशुभरूका अपि संख्यया च न संख्याकाः / तदुक्तम्-" जीवइया वयण महा०" इत्यादि, तेषां प्रवृशिरनादिप्रवाहपतिता कथं जिनवचनमूलिका संभवति ?, प्रत्यक्षबाधात् / किं च-तेषां सर्वेषामप्यवज्ञाकरणेन जिनावज्ञाऽभ्युपगमे " जीवो हन्तव्यः" इत्यादिनयप्रवादानासप्यबज्ञाकरणे नयात्वापत्तिरिति / एतच्यभावं कल्पयति-द्वादशाङ्गं हि सर्वोत्कृष्टं अनज्ञानं केवलज्ञानदिवाकरस्य प्रकाशभूतं केवलज्ञानमिव प्रस्थात्मक तित्वाधिकरणभेदेन भिन्नमपि स्वरूपतो न भिन्नम् , किन्तु केवलज्ञानमिवैकमेव, तुख्यविषयकत्वात् तुल्यसंबन्धित्वाच्च / उदयमधिकृत्य तु खरूपतोपि भिन्नमेव, तत्कारणस्थ क्षयोपशमस्य प्रत्यात्मभिन्नत्वात् , श्रतज्ञानोदयस्य च क्षायोपशमिकत्वात् / ते च प्रकादा निजद्वादशामूलका अपि सामान्यतो द्वादशाङ्गमूलका एवोच्यन्ते / यथा मानाजलसंभूतान्यपि कमलानि सामान्यतो जलजान्येक, अत एव सर्वप्रवादानां मूलं द्वादशाङ्गमेवेति सामान्यतोऽभिहितम् , सर्वस्यापि द्वाद शाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन सर्वाक्षरसंनिपातात्मकत्वात् प्रवादा अप्यक्षरात्मका एव / अत एव द्वादशाङ्गं रत्नाकरतुल्यम् , रत्नाकरस्यैव तस्यास्यनेकजातीयशुभाशुभनयलक्षणवस्तूमामाश्रयत्वात् / पर मिथ्यादृशां यद् द्वादशाङ्गं तत्स्वरूपत एव सर्वनयात्मक सत्तामात्रवर्तित्वाद, न घुनः फलतोऽपि कस्यापि मिथ्याशः कदाचिदपि सर्वांशक्षयोपशमाभावात् , मिथ्यादृष्टिमात्रस्योत्कृष्टतोऽपि क्षयोपशमः सर्वांशक्षयोपशमलक्षणसमुद्रापेक्षया बिन्दुकल्पो भवति / यदुक्तं. “जयति विजितरागः" इत्यादि / सम्यग्दृशां तु केषांचित्संयतानां फलतोऽपि द्वादशाङ्गस्य सर्वनयात्मकत्वम् , सर्वांशक्षयोपशमस्य संभवाद् / 1 यावन्तो पचनपथाः / For Private and Personal Use Only