________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 4" गुणतस्तत्वे तुल्ये संज्ञाभेदागमान्यथादृष्टिः। भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः // " इति एतत्सर्व समर्थयन्नाह " संव्यप्पवायमूलं दुवालसंग जओ समक्खायं / ‘रयणागरतुल् खलु तो सध्वं सुंदर तमि // " सर्वप्रवादमूल-भिक्षु-कणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिकारणम् / कि सद् ? इत्याह द्वादशाङ्ग-द्वादशानामाचारादीनामङ्गानां प्रवचनपुरुषावयवभूतानां समाहारो यतः कारमात्समाख्यातं सन्यक् प्रज्ञप्तम् / सिद्धसेनदीवाकरादिभियंतः पठाते " उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः / न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः / " अत एव रत्नाकरतुल्य-क्षीरोदधिप्रभृतिजलनिधिनिभम् , खलु निश्चये, तसस्मात् सर्वमपरिशेषसुन्दरं यत्किंचित्प्रवादान्तरेषु समुपलभ्यते तत्तत्र समयतारणीयम्। इत्यकरणनियमादीन्यपि बाक्यानि तेषु तेषु योगशास्त्रेषु ध्यासकपिलातीतपतचल्यादीनि प्रणीतानि जिनवचनमहोदधिमध्यलब्धोदयान्येव दृश्यानीति / तेषामवज्ञाकरणे सकलदुःखमूलभूताया भगबदनज्ञायाः प्रसङ्गात् न काचित्कल्याणसिद्धिरिति / यत्तु कश्चिदाह-" जैनानामकरणनियमपरिहारशङ्कामिरासार्थमेव तीर्थान्तरीयवर्णितत्वमुपवर्णितं नत्वन्धतीथिकेष्वकरणनियमोऽस्तीति भणितम् / वर्णनं च वर्णनीयवस्तुविषयकयथार्थज्ञानसापेक्षमेव, अन्यथा च तथा भूतवर्णनं सम्यगेव स्यात् , तथा च तदर्शनेऽपि धर्मसदभावप्रसङ्ग / इल्थं च कपिलस्य पुरस्तान्मनागिहापि धर्मोऽस्तीति परिव्राजकदर्शनमधिकृत्य मरीचियधनमुत्सूत्रं न स्यादिति / तदसत् , तीर्थान्तरीयाणा सर्वप्रवाद मूलं द्वादशाङ्गं यतः समाख्यातम / रत्नाकरतुल्यं खलु ततः सर्व सुन्दर तसिन् / For Private and Personal Use Only