________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घादसंग्रहहें तुचिन्ताज्ञानापादने माध्यस्थगुणानां साधुश्रावकाणांप्रद्वेषः, तत्पद्वेषस्थ तन्मूलदृष्टिवादप्रद्वेषमूलत्वेन महापापत्वात् / तदुक्तमुपदेशपदसूत्रवृत्त्योः "ज अत्थओ अभिन्न अण्णत्था सद्दावि तह चेव / तंमि पंओसो मोहा विसेसओ जिणमयडिआणं / / " अवाक्यमर्थतो वचनभेदेऽप्यर्थमपेक्ष्याभिन्नभेकाभिप्रायम् , तथा अन्वर्थाद् अचुगतार्थाच्छन्दतोऽपि शब्दसंदर्भमपेक्ष्य तथैव-अभिनमेव / इह परसमये द्विधा वाक्यान्युपलभ्यन्ते / कानिचिदर्थत एवाभिन्नानि " अप्पो गई वेयरणी अप्पा भे कुडसामली। अप्पा कामदुहा धेश अप्पा मे नंदणं वनं ॥"इत्यादिनिर्याक्थैर्यथा भारतोक्तानि " इन्द्रियाण्येवं तत्सर्वं यत्स्वर्गनरकावुभौ / निगृहीत विशिधानि स्वर्गाय नरकाय च / / आपदा प्रथितः पन्था इन्द्रियाणामसंयमः / तज्जयः संपदामग्रे येनेष्टं तेर्ने गम्यताम् / / " इत्यादीनि / कानिचिच्छन्दतोऽर्थसश्च-" जीवदया सचक्यणं "-इत्यादिभिः प्रसिद्वैरेव चाक्यैः सह या- .. " पश्चैतानि पवित्राणि सर्वेषां धर्मचारिणम् / अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् // " इत्यादीनि / एवं स्थित तस्मिन्नभिन्नार्थेऽकरणनियमादौ वाक्ये विशिष्टक्षयोपशमादिवाक्यंन सह प्रद्वेपः- परसमयप्रज्ञापनेयम् ' इतीर्ध्या मोहो मूढभावलक्षणो वर्तते बौद्धादिसामान्यधार्मिकजनस्यापि विशेषतो जिनमतस्थितानां सर्वनयवादसंग्रहामध्यस्थभावानीतहृदयाणां साधुश्रावकाणाम् " / अत एवान्यत्राप्यनेनोक्तम् यदर्थतोऽभिन्नमन्वार्थाच्छन्दतोऽपि तथा चैव / तस्मिन्प्रद्वेग मोहाद् विशेषतो जिनमतस्थितानाम् / / आत्मा नदी चैतरणी आत्मा मे कूटशाल्मली / आत्मा कामदुधा धेनुरात्मा मे नन्दनं वनम् // 3 जीवदया सत्यवचनम् / For Private and Personal Use Only