SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 जह योवहयनयणो सम्मं रूवं ण पासइ पुरियो / तह चे। मिच्छदिही किउलं सुक्खं ण प.वेइ / / 4 / / असदभिणिवेसवसो णि.ओगओ लाण तत्तओ भोगो / सव्वत्थ तदुवधायाचि सघारियजोगतुल्लोत्ति // 5 // एतस्माद्धि वचनादाव्यादीनामेव निवाद्यपेक्षयाऽप्यकालवचनाषधप्रयोगेण मिथ्याभिनिवेशदायादतिदुःखितत्वेन क्लिष्टतरदेवदुर्गरव प्रतीयते, परेण त्वभव्यनिहवानामनाराधकत्वविराधकत्वाभ्यां वैपरीत्यमङ्गोकृतं प्रसज्यते च तत्प्रक्रियया द्रव्याज्ञापेक्षयाऽभव्यादीनामपि साराधकत्वात् तात्त्विकसुदेवत्वमेवेति यत्किंचिदेतत् / - अथ चारित्रापेक्षयाऽऽराधकत्वं द्रव्यप्रतिपत्यैव परिभाष्यते, ज्ञानदर्शनापेक्षया तु भावप्रतिपत्त्या ततोऽभव्यादीनां द्रव्यलिङ्गिनां देशाराधकत्वमेव / निहवानां च देशाराधकत्वं देशविराधकत्वं च ततः देशाराधकत्वापेक्षयोभयोपपातसाम्यं दुर्गतित्वनिबन्धनं चैकस्य साहजिकं मिथ्यात्वम् , अपरस्य च विराधनाजन्यमिति परिभाषायां को दोषः ? इति चेद् , नन्वेवं परिभाषाश्रयणावश्यकत्वे वृत्तिकृत्स्वारस्येनैव साऽऽश्रयणी या इत्यभिप्रायवानाह-तत् तस्मावृति परिगृह्य परिभाषा वक्तुं युक्ता / 'जे' इति पादपूरणार्थों निपातः / वृत्तौ हि श्रुतशब्देन ज्ञानदर्शनयोः शीलशब्देन च प्राणातिपातादिक्रियाया एव परिभाषणाद् / अश्रुतवान् शीलवांश्च मार्गानुसायच बालतपस्वी पर्यवस्थतीति भावः / नहि द्रव्यलिङ्गधरोऽभव्यादिर्व्यवहारेण बालतपस्वी वक्तुं युज्यते / " तो एतं बाललवस्सिणो दृट्टव्वेत्ति " महानिशीथे नागिलवचनं कुशीलेषु बालनिश्चयाभिप्रायकमवति / न चैकस्मिन्नेव वाक्ये देशाराधकत्वमशुद्धव्यवहारात् , तदुपपादकं बालतपस्वित्वं च निश्चयादिति वक्तुं युक्तम् , संदर्भविरोधात्, किन्तु निश्चयप्रायका यथवोपहतनयनो सम्यग रूपं न पश्यति पुरुषः / तथेव मिथ्यादृष्टिविपुलं सोपं न प्राप्नोति // 4 // असदभिनिवेशवशो नियोगतस्तेषां तत्त्वतो भोगः / / सर्वत्र तदुपघातादपि............योगतुल्य इति // 5 // 1 तत एते. बालतपस्विनो द्रष्टव्या इति / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy